पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२४ वाचस्पतिकृतीकासंवलितव्यासभाष्यसमेतानि- १ समाधिपादे-

  सा हि जननीव कल्याणी योगिनं पाति । तस्य हि श्रदधानस्य
  विवेकार्थिनो वीर्यमुपजायते । समुपजातवीर्यस्य स्मृतिरुपतिष्ठते ।
  स्मत्युपस्थाने च चित्तमनाकुलं समाधीयते । समाहितचित्तस्य
  प्रज्ञाविवेक उपावर्तते । येन यथार्थं वस्तु जानाति । तदभ्यासात्तत्तद्विषयाच्च वैराग्यादसंप्रज्ञातः समाधिर्भवति ॥ २०॥
  ते खलु नव योगिनो मृदुमध्याधिमात्रोपाया भवन्ति ।
  तद्यथा-मृदूपायो मध्योपायोऽधिमात्रोपाय इति । तत्र मृदूपायस्त्रिविधः-मृदुसंवेगो मध्यसंवेगस्तीव्रसम्वेग इति । तथा
  मध्योपायस्तथाऽधिमात्रोपाय इति । तत्राधिमात्रोपायानां--
         तीव्रसंवेगानामासन्नः ॥ २१ ॥

   समाधिलाभः समाधिफलं च भवतीति ॥ २१ ॥

दोऽभिरुचिरतीच्छा श्रद्धा नेन्द्रियादिष्वात्माभिमानिनामभिरुचिरसंप्रसादो हि स व्यामोहमूलत्वादित्यर्थः । कुतोऽसावेव श्रद्धेत्यत आह---सा हि जननीव कल्याणी योगिनं पाति विमार्गपातजन्मनोऽनर्थात् । सोऽयमिच्छाविशेष इष्यमाणविषयं प्रयत्नं प्रसूत इत्याह -तस्य हि श्रद्दधानस्य । तस्य विवरणं--विवेकार्थिनो वीर्यमुपजायते । स्मृतिर्ध्यानमनाकुलमविक्षिप्तं, समाधीयते योगाङ्गसमाधियुक्तं भवति । यमनियमादिना- न्तरीयकसमाध्युपन्यासेन च यमनियमादयोऽपि सूचिताः । तदेवमखिलयोगाङ्गसंपन्नस्य संप्रज्ञातो जायत इत्याह----समाहितचित्तस्येति । प्रज्ञाया विवेकः प्रकर्ष उपजायते । संप्रज्ञातपूर्वमसंप्रज्ञातोत्पादमाह-तदभ्यासात्तत्रैव तत्तद्भूभिप्राप्तौ तत्तद्विषयाच्च वैराग्यादसंप्रज्ञातः समाधिर्भवति । स हि कैवल्यहेतुः सत्त्वपुरुषान्यताख्यातिपूर्वो हि निरोधश्चित्तमखिलकार्यकरणेन चरितार्थमधिकारादवसादयति ॥ २० ॥

  ननु श्रद्धादयश्चेद्योगोपायास्तर्हि सर्वेषामविशेषेण समाधितत्फले स्याताम् । दृश्यते

तु कस्यचिसिद्धिः कस्यचिदसिद्धिः कस्यचिच्चिरेण सिद्धिः कस्यचिच्चिरतरेण कस्यचित्क्षिप्रमित्यत आह---ते खलु नव योगिन इति । उपायाः श्रद्धादयो मृदुमध्याधिमात्राः प्राग्भवीयसंस्कारादृष्टयशाद्येषां ते तथोक्ताः । संवेगो वैराग्यं तस्यापि मृदुमध्यतीव्रता प्राग्भवीयवासनादृष्टवशादेवेति तेषु यादृशां क्षेपीयसी सिद्धिस्तान्दर्शयति सूत्रेण-तीव्रसंवेगानामासन्न इति सूत्रम् । शेषं भाष्यम् । समाधेः संप्रज्ञातस्य फलमसंप्रज्ञातस्तस्यापि कैवल्यम् ॥ २१ ॥ १ ग. घ. ड. 'यावद्वस्तु । २ ख ग. ग. ह. ५. 'तरि । ३ क. स्व. र. 'नो भवन्ति' । ।