पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पातञ्जलयोगसूत्रपाठः । जातिदेशकालव्यवहितानामप्यानन्तर्यं स्मृतिसंस्कारयोरेकरूपत्वात् ॥ ९ ॥ तासामनादित्वं चाऽऽशिषो नित्यत्वात् ॥ १०॥ हेतुफलाश्रयालम्बनैः संगृहीतत्वादेषामभावे - तदभावः ॥ ११ ॥ अतीतानागतं स्वरूपतोऽस्त्यध्वभेदाद्धर्माणाम् ॥ १२ ॥ ते व्यक्तसूक्ष्मा गुणात्मानः ॥ १३ ॥ परिणामैकत्वाद्वस्तुतत्त्वम् ॥ १४. ॥ वस्तुसाम्ये चित्तभेदात्तयोर्विभक्तः पन्थाः ॥ १५ ॥न चैकचिततन्त्रं वस्तु तदप्रमाणकं तदा किं स्यात् ॥ १६ ॥ तदुपरागापेक्षित्वाञ्चित्तस्य वस्तु ज्ञाताज्ञातम् ॥ १७॥ सदा ज्ञाताश्चित्तवृत्तयस्तत्प्रभोः पुरुषस्यापरिणामित्वात् ।। १८॥ न तत्स्वाभासं दृश्यत्वात् ॥१९॥ एकसमये चोभयानवधारणम् ॥ २० ॥ चित्तान्तरदृश्ये बुद्धिबुद्धेरतिप्रसङ्गः स्मृतिसंकरश्च ॥ २१ ॥ चितेरप्रतिसंक्रमायास्तदाकारापत्तौ स्वबुद्धिसंवेदनम् ॥ २२ ॥ द्रष्टदृश्योपरक्तं चित्तं सर्वार्थम् ॥ २३ ॥ तदसंख्येयवासनाभिश्चित्रमपि परार्थं संहत्यकारित्वात् ॥ २४ ॥ विशेषदर्शिन आत्मभावभावनानिवृत्तिः ॥ २५ ॥ तदा विवेकनिम्नं कैवल्यप्राग्भारं चित्तम् ॥ २६ ॥ तच्छिद्रेषु प्रत्ययान्तराणि संस्कारेभ्यः ॥ २७ ॥ हानमेषां क्लेशवदुक्तम् ॥ २८ ॥ प्रसंख्यानेडप्यकुसीदस्य सर्वथा विवेकख्यातेधर्ममेघः समाधिः ॥ २९ ॥ ततः क्लेशकर्मनिवृत्तिः ॥ ३० ॥ तदा सर्वावरणमलापेतस्य ज्ञानस्याऽऽनन्त्याज्ज्ञेयमल्पम् ॥ ३१॥ ततः कृतार्थानां परिणामक्रमसमाप्तिर्गुणानाम् ।। ३२ ॥ क्षणप्रतियोगी परिणामापरान्तनिर्ग्राह्यः क्रमः ॥ ३३ ॥ पुरुषार्थशून्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिरिति ॥ ३४ ॥ इति पाताञ्जलयोगसूत्रपाठे चतुर्थः पादः ॥ ४ ॥ समाप्तोऽयं श्रीमत्पतञ्जलिप्रणीतो योगसूत्रपाठः ॥