पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/२८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पातञ्जलयोगसूत्रपाठः। स्तम्भे चक्षुष्पकाशासंप्रयोगेऽन्तर्धानम् ॥ २१ ॥ सोपक्रमं निरुपक्रम च कर्म तत्संयमादपरान्तज्ञानमरिष्टेभ्यो वा ॥ २२ ॥ मैच्यादिषु बलानि ॥ २३ ॥ बलेषु इस्तिबलादीनि ॥ २४ ॥ प्रवृत्त्यालोकन्यासात्सूक्ष्मव्यवहितविप्रकृष्टज्ञा- नम् ॥ २५ ॥ भुवनज्ञानं सूर्ये संयमात् ॥२६॥ चन्द्रे ताराव्यूहज्ञानम् ॥ २७॥ ध्रुवे तद्गतिज्ञानम् ॥ २८ ॥ नाभिचक्रे कायव्यूहज्ञानम् ॥ २९ ॥ कण्ठकूपे क्षुत्पिपासानिवृत्तिः ॥ ३० ॥ कूर्मनाड्यां स्थैर्यम् ॥ ३५ ॥ मूर्धज्योतिषि सिद्ध- दर्शनम् ॥ ३२॥ प्रातिभावा सर्वम् ॥३३॥ हृदये चित्तसंवित् ॥३४॥ सत्त्व- पुरुषयोरत्यन्तासंकीर्णयोः प्रत्ययाविशेषो भोगः परार्थात्स्वार्थसंयमात्पुरुषज्ञा- नम् ॥ ३५ ॥ ततः प्रातिभश्रावणवेदनादर्शास्वादवार्ता जायन्ते ॥ ३६ ॥ ते समाधावुपसर्गा व्युत्थाने सिद्धयः॥ ६७ ॥ बन्धकारणशैथिल्यात्पचारसंवेद- नाच्च चित्तस्य परशरीरावेशः ॥ ३८ ॥ उदानजयाज्जलपङ्ककण्टकादिष्वसङ्ग उत्क्रान्तिश्च ।। ३९ ॥ समानजयाज्ज्वलनम् ॥ ४० ॥ श्रोत्राकाशयोः संब- न्धसंयमाद्दिव्यं श्रोत्रम् ॥ ४१ ॥ कायाकाशयोः संवन्धसंयमाल्लघुतूलसमाप- तेश्वाऽऽकाशगमनम् ॥ ४२ ॥ बहिरकल्पिता वृत्तिमहाविदेहा ततः प्रकाशावर- णक्षयः ॥ ४३ ॥ स्थूलस्वरूपसूक्ष्मान्वयार्थवत्त्वसंयमाद्भूतजयः ॥ ४४ ॥ ततोऽणिमादिप्रादुर्भावः कायसंपत्तद्धर्मानभिघातश्च ।। ४५ ॥ रूपलावण्यबलव- जसंहननत्वानि कायसंपत् ॥ ४६॥ ग्रहणस्वरूपास्मितान्वयार्थवत्त्वसंयमादि- न्द्रियजयः॥४७॥ ततो मनोजवित्वं विकरणभावः प्रधानजयश्च ॥४८॥ सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातत्वं सर्वज्ञातृत्वं च ॥४९॥ तद्वैराग्यादपि दोपवीजक्षये कैवल्यम् ॥ ५० ॥ स्थान्युपनिमन्त्रणे सङ्गस्मया- करणं पुनरनिष्टप्रसङ्गात् ॥५१॥ क्षणतत्क्रमयोः संयमाद्विवेकजं ज्ञानम् ॥ ५२ ॥ जातिलक्षणदेशैरन्यतानवच्छेदात्तुल्ययोस्ततः प्रतिपत्तिः ॥ ५३॥ तारकं सर्वविषयं सर्वथाविषयमक्रमं चेति विवेकजं ज्ञानम् ॥ ५४॥ सत्त्वपुरु- षयोः शुद्धिसाम्ये कैवल्यमिति ॥ ५५॥ इति पातञ्जलयोगसूत्रपाठे तृतीयः पादः ॥३॥ अथ पातञ्जलयोगसूत्रपाठे चतुर्थः पादः । जन्मौषधिमन्त्रतपासमाधिजाः सिद्धयः ॥ १॥ जात्यन्तरपरिणामः प्रकृ. त्यापूरात् ॥ २॥ निमित्तमप्रयोजकं प्रकृतीनां वरणभेदस्तु ततः क्षेत्रिकवत् ॥३॥ निर्माणचित्तान्यस्मितामात्रात् ॥ ४॥ प्रवृत्तिभेदे प्रयोजकं चित्तमेकम- नेकेषाम् ॥ ५ ॥ तत्र ध्यानजमनाशयम् ॥ ६॥ कर्माशुक्लाकृष्णं योगिनस्त्रि- विधमितरेषाम् ॥ ७ ॥ ततस्तद्विपाकानुगुणानामेवाभिव्यक्तिर्वासनानाम् ॥८॥