पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पातञ्जलयोगसूत्राणि । . तत इति त्रिविधात्कर्मणः, तद्विपाकानुगुणानामेति यज्जा- तीयस्य कर्मणो यो विपाकरतस्यानुगुणा या वासनाः कर्मविपाकमनुशेरते तासामेवाभिव्यक्तिः । न हि दैवं कर्म विपच्यमानं नारकतिर्यङ्मनुष्यवासनाभिव्यक्तिनिमित्तं संभवति । किंतु दैवानुगुणां एवास्य वासना व्यज्यन्ते । नारकतिर्यङ्मनुष्येषु चैवं समानश्चर्चः ॥८॥ जातिदेशकालव्यवहितानामप्यानन्तर्यं स्मृतिसंस्कारयोरेकरूपत्वात् ॥ ९ ॥ वृषदंशविपाकोदयः स्वव्यञ्जकाञ्जनाभिव्यक्तः। स यदि जातिशतेन वा दूरदेशतया वा कल्पशतेन वा व्यवहितः पुनश्च स्वव्यञ्जकाञ्जन एवोदियाद्रागित्येवं पूर्वानुभूतवृषदंशविपाकाभिसंस्कृता वासना उपादाय व्यज्येत । कस्मात् । यतो व्यवहितानामप्यासां सदृशं कर्माभिव्यञ्जकं निमित्तीभूतमित्यानन्तर्यमेव । कुतश्च, स्मृतिसंस्कारयोरेकरूपत्वात् । यथाऽनुभवास्तथा संस्काराः। या वासनाः कर्मविपाकमनुशेरतेऽनुकुर्वन्ति । दिव्यभोगजनिता हि दिव्यकर्मविपाकानुगुणा वासनाः । नहि मनुष्यभोगवासनाभिव्यक्तौ दिव्यकर्मफलोपभोगसंभवः । तस्मात्स्वविपाकानुगुणा एव वासनाः कर्माभिव्यञ्जनीया इति भाष्यार्थः ॥ ८ ॥ _स्यादेतत् । मनुष्यस्य प्रायणानन्तरमधिगतमार्जारभावस्यानन्तरतया मनुष्यवासनाया एवाभिव्यक्त्या भवितव्यम् । न खल्वस्ति संभवो यदनन्तरदिवसानुभूतं न स्मयते व्यवहितदिवसानुभूतं च स्मर्यत इत्यत आह-जातिदेशकालव्यवहितानामप्यानन्तर्यं स्मृतिसंस्कारयोरेकरूपत्वात् । भवतु वृषदंशवासनाया जात्यादिव्यवधिस्तथाऽपि तस्याः फलत आनन्तर्यं वृषदंशविपाकेन कर्मणा तस्या एव स्वविपाकानुगुणाया अभिव्यक्तौ तत्स्मरणसमुत्पादादित्याह-वृषदंशविपाकोदय इति । उदेत्यस्मादित्युदयः कर्माशयः । पुनश्च स्वव्यञ्जकाञ्जन एवोदियात् , अभिव्यज्येत विपाकारम्भाभिमुखः क्रियेतेत्यर्थः । अभिसंस्कारक्रिया उपादाय गृहीत्वा व्यज्येत । यदि व्यज्येत स्वविपाकानुगुणा एव वासना गृहीत्या व्यज्यतेत्यर्थः । आनन्तर्यमेव फलतः कारणद्वारकमुपपाद्य कार्यद्वारकमप्रपादयति-- कुतश्च स्मृतीति । एकरूपता सादृश्यम् । तदेवाऽऽह-- यथेति । नन्वनुभवसरूपाश्चेत्संस्कारास्तथा सत्यनुभवा विशरारव इत्येतेऽपि विशरारवः कथं चिरभाविनेऽनुभवाय १. 'यात्तदा द्रा । २ ग. इ. 'त्येव पू । ३ ज. तवृषदंशभा १ ४ क. ख. झ. पतया सा।