पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१८.
[ ४ कैवल्यपादे-
वाचस्पतिकृतटीकासंचलितव्यासभाष्यसमेतानि-

यतः-

कमांशुक्लाकृष्ण योगिनांस्त्र-
विधमितरेषाम् ॥ ७ ॥
चतुष्पदी खल्वियं कर्मजातिः । कृष्णा शुक्लकृष्णा शुक्ला
शुक्लाकृष्णा चेति । तत्र कृष्णा दुरात्मनाम् । शुक्लकृष्णा बहि:-
साधनसाध्या । सत्र परपीडानुग्रहद्वारेणेव कमांशयप्रचयः।
शुल्ला तपास्वाध्यायध्यानवताम् । सा हि केचले मनस्यायत्तत्वा-
दवहिःसाधनाधीना न परान्पीडयित्वा भवति । अशुक्लाकृष्णा
संन्यासिनां क्षीणलेशानां चरमदेहानामिति । तत्राशुलं योगिन
एव फलसंन्यासादकृष्णं चानुपादानात् । इतरेषां तु भूतानां
पूर्वमेव त्रिविधमिति ॥ ७ ॥
ततस्नापाकानुगुणानामेवाभि-
व्यक्तिर्वासनानाम् ॥ ८॥


तत्रैव च हेतुपरं सुत्रमवतारयति--यत इति । कर्माशुक्लाकृष्णं योगिनस्त्रिविध- मितरेषाम् । पदं स्थानम् । चर्तुषु समवेता चतुष्पदी । यद्यावहिःसाधनसायं तत्र सर्वत्रास्ति कस्यचित्पीडा । न हि ब्रह्मादिसाधनेऽपि कर्मणि परपीडा नास्त्यवधातादिसम- येऽपि पिपीलिकादिवधसंभवात् । अन्ततो बीजादिवर्धन स्तम्बादिभेदोत्पत्तिप्रतिबन्धात् । अनुग्रहश्च दक्षिणादिना ब्राह्मणादेरिति । शुक्ला तपःस्वाध्यायथ्यानवतामसंन्यासिनाम् । शुक्लत्वमुपपादयति-सा हीति । अशुजाकृष्णा संन्यासिनाम् । संन्यासिनो दर्शयति---- क्षीणेति । कर्मासंभवात् । कर्मसंन्यासिनो हि न कचिद्वहिःसाधनसाध्ये कर्मणि प्रवृत्ता इति न चैषामस्ति कृष्णः कर्माशयः । योगानुष्ठानसाध्यस्य कर्माशयफलस्येश्वरे समर्पः णान्न शुक्लः कर्माशयः । निर्रत्ययफलो हि शुक्ल उच्यते । यस्य फलभेव नास्ति कुतस्तस्य निरत्ययफलत्वमित्यर्थः । तदेवं चतुष्टयी कर्मजातिमुकवा कतमा कस्येत्यवधारयति-- तत्राशुक्लामिति ॥ ७॥ कर्माशयं विविच्य क्लेशाशयगतिमाह--ततस्तद्विपाकानगुणानामेवाभिव्यक्ति- र्वासनानाम् । यजातीयस्य पुण्यजातीयस्यापुण्याजातीयस्य वा कर्मणो यो विपाको दिन्यो वा नारको वा जात्यायु गस्तस्य विपाकस्यानुगुणाः । ता एवाऽऽह--- [१]

  1. १ क. ग. इ. च. ज"तुष्पात्सलि' । २ ख. 'यय । ३ ग. प. ४. 'यतला। ४ ज. झ. कर्म° । ५ ख. °त् । ० १ ६ ज, रवयफ' । ७ ज. रययफ।