पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सू० ५३] पातञ्जलयोगसूत्राणि । . . १७१ रात्रादयः । स खल्वयं कालो वस्तुशून्योऽपि बुद्धिनिर्माणः शब्द- ज्ञानानुपाती लौकिकानां व्युत्थितदर्शनानां वस्तुस्वरूप इवाव- भासते। क्षणस्तु वस्तुपतितः क्रमावलम्बी । क्रमश्च क्षणानन्तर्यात्मा ते कालविदः काल इत्याचक्षते योगिनः । नच द्वौ क्षणौ सह भवतः । क्रमश्च न द्वयोः सहभुवोरसंभवात् । पूर्वस्मादुत्तरभाविनो यदानन्तर्यं क्षणस्य स क्रमः । तस्माद्वर्तमान एवैकः क्षणो न पूर्वोत्तरक्षणाः सन्तीति । तस्मानास्ति तत्समाहारः । ये तु भूतभागिनः क्षणास्ते परिणामान्विता व्याख्येयाः । तेनैकेन क्षणेन कृत्स्नो लोकः परिणाममनुभवति । तत्क्षणोपारूढाः खल्वमी सर्वे धर्माः । तयोः क्षणतत्क्रमयोः संयमानयोः साक्षात्करणम् । ततश्च विवेकजं ज्ञानं प्रादुर्भवति ॥ ५२ ।। तस्य विषयविशेष उपक्षिप्यते---- जातिलक्षणदेशैरन्यतानवच्छेदात्तु- ल्ययोस्ततः प्रतिपत्तिः ॥ ५३ ॥ . गपद्भाविक्षणधर्म वात्क्रमस्य क्षणसमाहारस्यावास्तवत्वाक्षणतत्क्रमयोरप्पवास्तवत्वं समाहारस्य नैसर्गिकवैतण्डिकबुद्धयतिशयरहिता लौकिकाः प्रतिक्षण एव व्युत्थितदर्शना भ्रान्ता ये कालमीदृशं वास्तवमभिमन्यन्त इति । तत्किं क्षणोऽप्यवास्तवो नेत्याह-क्षणस्तु वस्तुपतितो वास्तव इत्यर्थः । क्रमस्यावलम्बनमवलम्बः सोऽस्यास्तीति क्रमेणावलम्ब्यते वैकल्पिकनेत्यर्थः । क्रमस्य क्षणावलम्ब. नत्वे हेतुमाह--क्रमश्चेति । क्रमायावास्तवत्वे हेतुमाह-न चेति । चो हेत्वर्थे । यस्तु वैजात्यात्सहभावमुपेयात्तं प्रत्याह-क्रमश्च न द्वयोरिति । कस्मादसंभव इत्यत आह--- पूर्वस्मादिति । उपसंहरत-तस्मादिति । तत्किमिदानीं शशविषाणायमाना एवं पूर्वोत्तरक्षणा नेत्याह-ये त्विति । अन्विताः साम्येन समन्वागता इत्यर्थः । उपसंहरति- तेनेति । वर्तमानस्यैवार्थक्रियासु स्वोचितासु सामर्थ्यादिति ॥ ५२ ॥ - यद्यप्येतद्विवेकजं ज्ञानं निःशेषभावविषयमित्यग्रे वक्ष्यते तथाऽप्यतिसूक्ष्मत्वात्प्रथम तस्य विषयविशेष उपक्षिप्यते-जातिलक्षणदेशैरन्यतानवच्छेदात्तुल्ययोस्ततः प्रतिपत्तिः। लौकिकानां जातिभेदोऽन्यताया ज्ञापकहेतुः । तुल्या जातिर्गोत्वं तुल्यश्च देशः - -- १ क, ख. क. च. ज. रस्य भा! २ ख. ज. ति। तत्कि।