पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१७० - वाचस्पतिकृतटीकासंवलितव्यासंभाष्यसमेतानि- [ ३ विभूतिपादे-- यवः प्रतिपक्षाः । स खल्वहं लब्धालोकः कथमनया विषयमृगतृष्णया वञ्चितस्तस्यैव पुनः प्रदीप्तस्य संसाराग्रेरात्मानमिन्धनी कुर्यामिति । स्वस्ति वः स्वप्नोपमेभ्यः कृपणजनमार्थनीयेभ्यो विषयेभ्य इत्येवं निश्चितमतिः समाधिं भावयेत् । . . सङ्गमकृत्वा स्मयमपि न कुर्यादेवमहं देवानामपि प्रार्थनीय इति । स्मयादयं सुस्थिसंमन्यतया मृत्युना केशेषु गृहीतमिवाऽऽत्मानं न भावयिष्यति । तथा चास्य च्छिन्द्रान्तरप्रेक्षी नित्यं यत्नोपचर्यः प्रमादो लब्धविवरः क्लेशानुत्तम्भयिष्यति ततः पुनरनिष्टप्रसङ्गः । एवमस्य सङ्गस्मयावकुर्वतो भावितोऽर्थो दृढी भविष्यति । भावनीयवार्थोऽभिमुखी भविष्यतीति ॥ ५१ ॥ क्षणतत्क्रमयोः संयमाद्वि- वेकजं ज्ञानम् ॥ ५२॥ यथाऽपकर्षपर्यन्तं द्रव्यं परमाणुरेवं परमापकर्षपर्यन्तः कालः क्षणो यावता वा समयेन चलितः परमाणुः पूर्वदेशं जह्यादुत्तदेशमुपसंपद्येत स कालः क्षणः । तत्प्रवाहाविच्छेदस्तु क्रमः। क्षणतत्क्रमयोर्नास्ति वस्तुसमाहार इति बुद्धिसमाहारो 'मुहूर्ताहो- स्मयकरणे दोषमाह-~-स्मयादयमिति । स्मयात्सुस्थितमन्यो नानित्यतां भावयिष्यति, न तस्यां प्रणिधास्यतीत्यर्थः । सुगममन्यत् ॥ ५१ ॥ . उक्ता क्वचित्क्वचित्संयमात्सर्वज्ञता, सा च न निःशेषज्ञता । अपि तु प्रकारमात्रविवक्षया, यथा सर्वैर्र्व्यञ्जनैर्भुक्तमिति । अत्र हि यावन्तो व्यञ्जनप्रकारास्तैर्भुक्तमिति गम्यते न तु निःशेषैरिति । अस्ति च निःशेषवचनः सर्वशब्दो यथोपनीतमन्नं सर्वमशितं प्राशकेनेति । तत्र हि निःशेषमिति गम्यते । तदिह निःशेषज्ञतालक्षणस्य विवेकजज्ञानस्य साधनं संयममाह-क्षणतत्क्रमयोः संयमाद्विवेकजं ज्ञानम् । क्षणपदार्धं निदर्शनपूर्वकमाह--यथेति । लोष्टस्य हि प्रविभज्यमानस्य यस्मिन्नवयवेऽल्पत्वतारतम्यं व्यवतिष्ठते सोऽपकर्षपर्यन्तः परमाणुर्यथा तथाऽपकर्षपर्यन्तः कालः क्षणः, पूर्वापरभागविकलकालकलेति यावत् । तमेव क्षणं प्रकारान्तरेण दर्शयति-यावता वेत्ति । परमाणुमात्रं 'देशमतिक्रामेदित्यर्थः । क्रमपदार्थमाह -- तत्प्रवाहेति । तत्पदेन क्षणः परामृश्यते । न चेदृशः क्रमो वास्तवः किंतु काल्पनिकस्तस्य- समाहाररूपस्यायुगपदुपस्थितेषु ' वास्तवत्वेन विचारासहत्वादित्याह--क्षणतरक्रमयोरिति । अयु.