पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१४९ सू० २६] पातञ्जलयोगसूत्राणि भुवनज्ञानं सूर्ये संयमात् ॥ २६ ॥ तत्पस्तारः सप्त लोकाः । तत्रावीचेः प्रभृति मेरुपृष्ठं यावदि- त्येवं भूर्लोकः । मेरुपृष्ठादारभ्य-आधुवाद्ग्रहनक्षत्रताराविचि- पोऽन्तरिक्षलोकः । ततः परः स्वर्लोकः पञ्चविधो माहेन्द्रस्तुतीयो लोकः । चतुर्थः प्राजापत्यो महर्लोकः । त्रिविधो ब्राह्मः । तद्यथा--- जनलोकस्तपोलोकः सत्यलोक इति । " ब्राह्मस्त्रिभूमिको लोकः प्राजापत्यस्ततो महान् ।

               माहेन्द्रश्च स्वरित्युक्तो दिवि तारा भुवि प्रजाः "॥

इति संग्रहशलोकः।

     तत्राबीचेरुपर्युपरि निविष्टाः षण्महानरकभूमयो घनसलिला-
     नलानिलाकाशतमःप्रतिॺठ महाकालाम्बरीषरौरवमहारौरवकाल-
     सूत्रान्धतामिस्राः । यत्र स्वकर्मोपार्जितदुःखवेदनाः प्राणिनः
     कष्टमायुर्दीर्घमाक्षिप्य जायन्ते । ततो महातलरसातलातलसुत.
    लवित्तलतलातलपातालाख्यानि सप्त पातालानि । भूमिरियम-
    षुमी सप्तद्वीपा वसुमती, यस्याः सुमेरुमध्ये पर्वतराजः काञ्चनः ।
    तस्य राजतवैदूर्यस्फटिकहेममणिमयानि शृङ्गाणि । तत्र वैदूर्य-
     प्रभानुरागानीलोत्पलपत्रश्यामो नभसो दक्षिणी भागः, श्वेत::
    पूर्वः, स्वच्छ, पश्चिमः, कुरण्टकाभ उत्तरः । दक्षिणपाइँ चास्य
    जम्बूर्यतोऽयं जम्बूद्वीपः । तस्य सूर्यप्रचाराद्वात्रिंदिवं लग्नमिव
    वर्तते । तस्य नीलश्वेतशृङ्गवन्त उदीचीनास्त्रयः पर्वता द्विसा-
    इस्रायामाः । तदन्तरेषु त्रीणि वर्षाणि नव नव योजनसाह-
    साणि रमणकं हिरण्मयमुत्तराः कुरव इति । निषधहेमकूटहिम-
    शैला दक्षिणतो दिसाइस्रायामाः । तदन्तरेषु त्रीणि वर्षाणि
    नव नव योजनसाहस्राणि हरिवर्ष किंपुरुषं भारतमिति -__________________________________________________________________________________________

भुवनज्ञानं सूर्ये संयमात् । आधुवादितो मेरुपृष्ठात् । तदेवमनेन संग्रहश्लोका. न्तेन संक्षेपतः सप्त लोकानुपन्यस्य विस्तरेणाऽऽह-तत्रावीचेरिति । धनशब्देन पृथिव्युच्यते । भूमिः स्थानमित्यर्थः । एते महानरका अनेकोपनरकपरिवारा बोद्धव्याः । एतानेव नामान्तरेणोपसंहरति-महेति । तस्य सूर्यप्रचाराद्रात्रिंदिवं लग्नमित्र वर्तते । _______________________________________________________________________________________________ १ ग, घ, इ, तत्परः । २ क. स. "कालमा । ३ ग, घ, ङ. कुरुण्डका । च.