पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/१५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४८
[ ३ विभूतिपादे-
वाचस्पतिकृतटीकासंबलितव्यासभाष्यसमेतानि-


मैत्र्यादिषु बलानि ॥ २३ ॥

 मैत्री करुणा मुदितेति तिस्रो भावनास्तत्र भूतेषु सुखितेषु मैत्रीं भावयित्वा मैत्रीवलं लभते । दुःखितेषु करुणां भाव यित्वा करुणावलं लभते । पुण्यशीलेषु मुदितां भावयित्वा मुदितावलं लभते । भावनातः समाधिर्यः स संयमस्ततो बला न्यवन्ध्यवीर्याणि जायन्ते । पापशीलेषूपेक्षा न तु भावना । ततश्च तस्यां नास्ति समाधिरित्यतो न बलमुपेक्षातस्तत्र संय माभावादिति ॥ २३॥

बलेषु हस्तिबलादीनि ॥ २४ ॥

 हस्तिबले संयमाद्धस्तिवलो भवति । वैनतेयबले. संयमाद्वै नतेयबलो भवति । वायुबले संयमाद्वायुबलो भवतीत्येव मादि ॥ २४॥

प्रवृत्त्यालोकन्यासात्सूक्ष्मव्यव हितविपकष्टज्ञानम् ॥ २५ ॥

 ज्योतिष्मती प्रवृत्तिरुक्ता मनसस्त[१]स्या य आलोकस्तं योगी सूक्ष्मे वा व्यवहिते वा विप्रकृष्टे वाऽर्थे विन्यस्य तमर्थमधि- ग[२]च्छति ॥ २५॥


 मैत्र्यादिषु बलानि । मैत्र्यादिषु संयमान्मैत्र्यादिबलान्यस्य । तत्र मैत्री- भावनातो बलं येन जीवलोकं सुखा करोति ततः सर्वहितो भवति । एवं करुणाबला- पाणिनो दुःखाहुःखहेतोर्वा समुद्धरति । एवं मुदिताबलाजीवलोकस्य माध्याथ्यमाधत्ते । वक्ष्यमानणौपयिकं भावनाकारणत्वं समाधेराह‌-‌भावनातः समाधिर्यः स संयमः। यद्यपि धारणाध्यानसमाधित्रयमेव संयमो न समाधिमात्रं तथाऽपि समाध्यनन्तरं कार्यो- त्पादात्समाधेः प्राधान्यात्तत्र संयम उपचरितः । कचिद्भावना समाधिरिति पाठः । तत्र भावनासमाधी समूहस्य संयमस्यावयवौ हेतू भवतः । वीय प्रयत्नः, तेन मैत्र्यादिव- लवतः पुंसः सुखितादिषु परेषां कर्तव्येषु प्रयत्नोऽवन्धो भवतीति । उपेक्षौदासीन्यं, न तत्र भावना नापि सुखादिवद्भाव्यं किंचिदस्तीति ॥ २३ ॥

 बलेषु हस्तिबलादीनि । यस्य बले संयमस्तस्य बलं लभत इति ॥ २४ ॥

 प्रवृत्त्यालोकन्यासात्सूक्ष्मव्यवहितविप्रकृष्टज्ञानम् । सूक्ष्मे व्यवहिते विप्रकृष्टे वाऽर्थे संयमेन विन्यस्य तमधिग[३]च्छति ॥ २५ ॥

  1. १ क, ख, "स्तस्यां य।
  2. २ ख. गच्छेत् ॥ २५ ॥
  3. ३ क. ख, ज. गच्छादात