रागः सुखत्वे तत्त्वज्ञानं माध्यस्थ्ये । धृतिकारणं शरीरमिन्द्रि- याणाम् । तानि च तस्य । महाभूतानि शरीराणां, तानि च परस्परं सर्वेषां तैर्यग्यौनमानुषदैवतानि च परस्परार्थत्वादित्येवं नव कारणानि । तानि च यथासंभवं पदार्थान्तरेष्वपि योज्यानि । योगाङ्गानुष्ठानं तु द्विधैव कारणत्वं लभत इति ॥ २८
तत्र योगाङ्गान्यवधार्यन्ते-
यमनियमासनप्राणायामप्रत्याहारधार
णाध्यानसमाधयोऽष्टावङ्गानि ॥ २९ ॥
मूढो विषण्णो भवति चैत्रस्य मैत्रस्य पुण्यवतो बत कलत्ररत्नमेतन्न तु मम भाग्यहीनस्येति । एवं सपत्नीजनस्य तस्यां द्वेषः स्त्रीप्रत्ययस्य दुःखन्वे । एवं मैत्रस्य तस्या भर्तू रागस्त- स्यैव स्त्रीप्रत्ययस्व सुखत्वे । तत्त्वज्ञानं त्वड्यांसमेदोस्थिमज्जासमूहः स्वीकायः स्थानबीजा- दिभिरशुचिरिति विवेकिनां माध्यस्थ्ये वैराग्ये कारणमिति । धृतिकारणं शरीरमिन्द्रियाणां विधारकमिन्द्रियाणि च शरीरस्य सामा[१]न्या[२] करणवृ[३]त्तिर्हि प्राणाद्या वायवः पञ्च तदभावे शरीरपातात् । एवं मांसादिका[४]याङ्गानामपि परस्परविधार्यविधारकत्वम् । एवं महाभूतानि पृथिव्यादीनि मनुष्यवरुणसूर्यगन्धवहशशिलोकनिवासिनां शरीराणां, तानि च परस्परं, पृथिव्यां हि गन्धरसरूपस्पर्शशब्दगुणायां पञ्च महाभूतानि परस्परं विधार्यविधारकभावेना. वस्थितान्यप्सु चत्वारि तेजसि त्रीणि द्वे च मातरिश्वनीति । तैर्यग्यौनमानुषदैवतादीनि च विधार्यविधारकभावेनावस्थितानि । नन्वाधाराधेयभावरहितानां कुतस्तत्त्वमित्यत आह- परस्परार्थत्वादिति । मनुष्यशरीरं हि पशुपक्षिमृगसरीसृपस्थावरशरीरोपयोगेन ध्रियते । एवं व्याघ्रादिशरीरमपि मनुष्यपशुमृगादिशरीरोपयोगेन । एवं पशुमृगादिशरीरमपि स्थाव- राघुपयोगेन । एवं दैवशरीरमपि मनुष्योप[५]हृतच्छागमृगकपिञ्जलमांसाज्यपुरोडाशसा ना . खाप्रस्तरादिभिरिज्यमानं तदुपयोगेन । एवं देवताऽपि वरदानवृष्टयादिभिर्मनुष्यादीनि पार- यतीत्यस्ति परस्परार्थत्वमित्यर्थः । शेषं सुगमम् ॥ २८ ॥
संप्रति न्यूनाधिकसंख्याव्यवच्छेदार्थं योगाङ्गान्यवधारयति-तत्र योगाङ्गान्यव- धार्यन्त इति । यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टाव-