पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/77

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
२७
समाधिपादः प्रथमः

  ननु चाभावार्थापत्ती एते, नानुमाने, (न) लक्षणासङ्गतेः, गवादिवत् ॥

 न---यथोक्तलक्षणोपपत्तेः- वध्यघातकयोर्विरोधलक्षणः संबन्धः । यत्र यत्र घातकभावस्तत्र तत्र वध्याभाव एवेत्यविनाभावः । न हि वध्यस्याभावं घातका(क)भावो व्यभिचरति । वध्यस्य वा भावो घातका(क)भावम्, अग्निभावमिव धूमभावः ॥

 कथं पुनरवगम्यते घातकभावदर्शनादेव तद्गोचरे वध्यस्याभावबुद्धिरिति ? न पुनः सदुपलम्भकप्रमाणानां घातक इव वध्ये व्यापाराभावादिति ॥

 उच्यते-घातकभावे व्यापृ(प्यावृ)तप्रमाणस्यैव वध्याभावबुध्युत्पत्ति:, धूमभावे व्यापृ(वृ)तप्रमाणस्येवख्रिभावबुद्ध्युत्पत्ति:, तथा घातकविशेषव्यापृ(वृ)तप्रमाणस्य वध्यविशेषाभावबुद्ध्युत्पत्तिः, धूमविशेषव्यापृ(वृ)तप्रमाणस्येवाग्निविशेषबुद्विरिति ॥

 अभावप्रमाणवादिनस्तु सर्वत्र प्रमाणाभावस्याविशिष्टत्वाद्विरोधिविशेष दर्शनानुविधानं विरोध्यन्तराभावदर्शनस्यानुपपन्नं, लिङ्गविशेषानुविधानमिव लिङ्गिविशेषदर्शनस्य । न हि सदुपलम्भकप्रमाणव्यापाराभावस्य कश्चिद्विशेषः, येन विशेषबुद्धिस्तद्विशेषमनुविधीयते ॥

 अथ जिज्ञासिते विशेषे सदुपलम्भकप्रमाणाभावादिति चेत्—तन्न— असतः स्मृतीच्छादिसहभावापेक्षानुपपते: । न ह्यसत् सहायापेक्षया कार्यं निर्वर्तयद्दृष्टं शशविषाणादि । दृष्टमिहेति चेत्-न-विप्रतिपत्तिस्थानत्वे दृष्टान्ताभावात् । तुल्यमिति चेत्-न-घटादेः सतोऽपेक्षादर्शनात् ॥

 न चापि निर्व्यापारस्यावस्तुत्वादभावस्य प्रमाणभावो युक्तः । न हि निरस्तव्यापारकं किंचित् कार्यारम्भकं दृश्यते लेके । तस्माद्व्यापाररूपप्रमाणजनिता प्रमेयाभावबुद्धिः, प्रमेयविषयत्वात् घटादिबुद्धिवत् । तथा च वस्तुत्वात् प्रवृत्तिनिवृत्तिहेतुत्वात् । विपक्षः शशविषाणादिः । तथा अभाव[प्रमा]प्रमाणा(ण) भावजनिता न भवति, यथाऽभिहितहेतुदृष्टान्तदर्शनात् । (नेन) ॥

 घातकदर्शनं वध्याभावबुद्धेर्लिङ्गं तद्भावभावित्वादग्न्यादिबुद्धिनिमित्तधूमादिबुद्धिवत् संशयनिवर्तकत्वाच्च । वध्याभावबुद्धिर्वा लिङ्गजनिता निश्चयरूपत्वादग्निबुद्धिवदिति ॥