पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/78

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
२८
पातञ्जलयोगसूत्रभाष्यविवरणे

 इह घटो नास्तीति किल नानुमानं लिङ्गलिङ्गिसबन्धाग्रहणात् । न हि यथाऽग्न्यादिबुद्धेर्धूमादिलिङ्गान्वेषणं तथेह नास्ति घट इत्यत्र लिङ्गान्वेषणमस्ति । प्रागेव लिङ्गान्वेषणात् बुध्युत्पत्तेः ।

 नैष दोषः । इहप्रत्ययाकारस्यैव लिङ्गत्वात् । न हि प्रथममेव लिङ्गबुध्युपजनने सति लिङ्गान्वेषणं भवति । इहेत्याकारोपरञ्जिता बुद्धिर्लिङ्गम्। उमुपरञ्जकव्यतिरिक्तघटाद्यभावबुद्धेर्घातकबुद्धिवदेव । विरोधलक्षण एव चात्रापि सम्बन्ध : ॥

 यत्र पुनरविरुद्धान्युपरञ्जकानि तत्रास्तित्वबुद्धेः ।। एतेनैवार्थापत्तेरनुमानत्वं व्याख्यातमविनाभावेन संबन्धेन । तत्रपि जीवतो हि देवदत्तस्य गृहाभावे बहिर्भावः, यदा गृहे भावः न तदा बहिर्भाव इत्यन्यतरेणानुमानम् । साक्षात् दृश्यमानबहिर्भावाभ्यन्तराभावत्वं दृष्टान्तः । वृत्त्युपरञ्जकानुपरञ्जकत्वेन ह्याभावग्रहणस्याभिहिते हेतुः ॥

 अग्न्यादावपि दहनादिशक्तिग्रहणमनुमानमेव । कार्यनिर्वर्तकयोरविनाभावसंबन्धस्यात्मनि दृष्टत्वाद्भुज्यादौ । दृश्यते हि प्रत्यगात्मानि शक्तोऽहमिदं कार्यं कर्तुमशक्तोऽहमित्यात्मवदात्मविशेषणस्य शक्तेर्ग्रहणम् । शक्तिनिर्वर्त्यमेव दहनादिकार्यमपीत्यनुमानसिद्धिः ।

 ननु चाभावस्य प्रत्यक्षतामुपगायन्ति केचित् । यथा किलादर्शकेन प्रदीपादिना सति गृह्यमाणे वस्तुनि न तदवयविनि यदुपलभ्यते तन्नास्तीत्येवं सत: प्रकाशकं प्रमाणमसदपि प्रकाशयति । तथा चोदाहरन्ति-अनङ्कितं वास आनयेत्युक्तः प्रविश्य भाण्डागारम् अङ्कितानङ्कितवासस्सन्निधावङ्कितवासोग्रहणेनैव प्रत्यक्षेणाङ्काभावविशिष्टं वास उपलभ्यानयति । तस्मात् प्रत्यक्ष एवाभावो लक्षणान्तरानुपपत्तेरिति ।

 तन्न-बुद्ध्याकारेणार्थावधारणानृतत्वप्रसङ्गात्। यदाकारा हि बुद्धिस्तस्य प्रल्यक्षावध्रियमाणात्मताभ्युपगम्यते । यथा नीलं वस्तु पीतमित्यत्रापि विशेषणविशेष्यसंबन्धप्रत्ययो मिथ्या प्राप्नोति ! तद्यथेह घटे नास्तीति इहप्रदेशस्य घटाभावेनासति संबन्धे संबन्धप्रत्यय: ; न हि घटाभावस्येहप्रदेशस्य चा[प्राप्त]प्राप्तिलक्षणः समवायाभिधानो वा संबन्धस्तैरभ्युपेयते । यथेह देवदत्त इति । तस्मादभाव(वे)प्रत्ययव(या)न्नीलं वस्त्विति विशेषणविशेष्यसंबन्धप्रत्ययोऽपि संबन्धप्रत्ययत्वान्मिथ्या प्रसज्येत ॥