पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/72

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
२२
पातञ्जलयोगसूत्रभाष्यविवरणे

[ भाष्यम् ]

 फलं तदविशिष्टः पौरुषेयश्चित्तवृत्तिबोधः ॥

[ विवरणम् ]

 नापि क्रियैव फलं, क्रियानुपरमप्रसङ्गात् । फलावसाना हि (पि) क्रिया । क्रियायाश्च फलत्वे फलानभिलाषित्वप्रसङ्गः । तस्या दुःखत्वात् ॥

 तस्मान्न प्रमाणस्वरूपमेव फलम्, नापि तद्व्यतिरिक्तप्रमाणान्तरमित्याह— फलं तदविशिष्ट इत्यादि । तदविशिष्टः तया प्रमाणाख्यया वृत्त्या अविशिष्ट: तुल्यः तदाकारत्वेन, पौरुषेयः पुरुषस्यायं बोध इति । पुरुषस्य हि वृत्त्याकारता । तस्मान्नाक्रियाजं द्रव्यस्वरूपमात्रं फलम् । किं तर्हि ? द्रव्यस्यैवावस्थान्तरविशेषः (प्र)क्रियाजः(ज)क्रियापर्यवसानकालः क्रियोपरमोपपत्तेः फलम् । फलनिष्पत्तावेव हि क्रियोपरम उपपद्यते । एवंभूतस्य मुख्यफलत्वे प्रधानक्रियाव्यवहित(विप्रकृष्टायाः)क्रियाया द्रव्यं द्रव्यस्य वा क्रिया फलमित्यन्योन्यप्रत्युपस्थापकत्वेन प्रधानफलाभिमुखीकरणात् फलत्वोपचारो न विरोत्स्यते ।

 ननु च भवतोऽप्युपचरितमेव फलम् वृत्त्यविशिष्टतायाः फलत्वेनाभ्युपगमात्, पुरुषस्य च शुद्धत्वात्, तदाकारताया अनृतत्वम् । न हि स्फटिकमणेरलक्तकोपधानाकारता सत्या ॥

 बाढम्-तथापि त्वेतदेव फलं मुख्यम्, दृष्टत्वात् । मुख्यफलान्तरादर्शनात् । सर्वस्यैव क्रियाकारकजातस्यैतत्फलार्थत्वात् । एतदवसानं हि तत्सर्वम् । तथा च प्रदर्शितम् ॥

 ननु च मिथ्याभूतस्यैव मुख्यफलत्वं वृत्त्याकारस्य, तथा च तदभिलाषानुपपत्तिः । बाढम्-मिथ्याभूत एव वृत्त्यनुगतो भोगः । तथा चाह- "सत्वपुरुष[१]योरत्यन्तासङ्कीर्णयोः प्रत्ययाविशेषो भोगः” इति ॥ भाष्यमपि -"तयोः स्वरूपोपलम्भे सति कुतो भोग[२]" इति ॥ अत एव च सम्यग्दर्शनादात्यन्तिकी निवृत्तिरुपपद्यते ॥

 येषाममिथ्या फलं, तेषां वैराग्यकारणाभावात् सम्यग्दर्शनान्वेषणानुपपत्तेर्मोक्षाभावः । न च क्रियापरिनिष्पाद्यो मोक्षः, अनित्यत्वप्रसङ्गात् ॥


  1. पा-3-सू-35.
  2. इदानीन्तनमुद्रितपुस्तके इदं भाष्यं नोपलभ्यते ।