पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/73

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
२३
समाधिपादः प्रथमः



[ भाष्यम् ]

 प्रतिसंवेदी [बुद्धेः] पुरुष इत्युपरिष्टात् [१]प्रवेदयिष्यामः ।

[ विवरणम् ]

 अथ बुद्धिबोद्धृत्वं पुरुषस्य सत्त्वं चासिद्धमिति चेत् अह—प्रतिसंवेदी बुद्धेः पुरुष इत्युपरिष्टात् प्रवेदयिष्याम इति ॥

 ये चापीन्द्रियार्थसन्निकर्षस्य प्रत्यक्षत्वमभ्युपयन्ति, न तेषामपि सम्यगभ्युपेतं, सन्निकर्षस्य क्रियाफलत्वात् । सन्निकर्षश्च संयोगः । स च क्रियाजस्तैरिष्यते । यतो यदुपजायते तत्तस्य प्रमाणम् । तच्च तस्य फलं यदुपजायते ।

 फलमपि सन्निकर्षो ज्ञानं प्रति प्रमाणमिति चेत्-तच्च न—ज्ञापकप्रमाणप्रस्तावे कारकप्रमाणोपन्यासस्यायुक्तत्वात् । सन्निकर्षो हि ज्ञानस्योत्पादको न तस्य ज्ञापकः । प्रमेयाधिगमाय हि प्रत्यक्षादीन्युपन्यस्तानि, न ज्ञानोत्पत्तिकारणम् । तत्प्रक्रियायाम(यान्य)प्रकृतं प्रक्रियेत ॥

 अथापि स्यात्---ज्ञानस्यापि प्रमेयत्वात्तच्चाप्युत्पद्यमानं प्रमीयत इति, तदुत्पत्तिकारणस्य सन्निकर्षस्य ज्ञापकत्वमेवेति--तच्च न-ज्ञानं ज्ञानेनैव ज्ञायेत, तेषां तथाभ्युपगमात् । न च सन्निकर्षो ज्ञानम् । ज्ञानोत्पादकत्वेनाभ्युपगमात् ॥

 अथ ज्ञानस्य ज्ञाने सन्निकर्षो निमित्तत्वात् प्रमाणमिति चेददृष्टेश्वरेच्छा विषयनिमेषोन्मेषादीनामपि निमित्तत्वात् प्रमाणत्वे कः प्रद्वेषः ? न च ज्ञानस्य ज्ञेयत्वे आत्मनश्च स्वभावचिद्रूपत्वानभ्युपगमे शक्या अनवस्था परिहर्तुम् ॥

 अथ आत्मसमवेतमात्रतयैव ज्ञानस्य ज्ञेयता, न ज्ञानान्तरमपेक्ष्यते येनातिप्रसज्येतेति चेत्—अस्याप्यन्यत् प्रत्यक्षलक्षणं वाच्यम् अनिन्द्रियसन्निकर्षादिलक्षणत्वादात्मनि ज्ञानसमवायत्वस्य । सन्निकर्षस्य च ज्ञानोत्पत्तिफलत्वात्तदुत्पत्तिव्यवधाने सति तस्य ज्ञानेन नानन्तर्यम् ।

 तस्मात्तदानन्तर्येणापि न सन्निकर्षफलत्वं ज्ञानस्य । तथा हानादिबुद्धीनामपि रूपादिज्ञानफलत्वानुपपतिरुक्ता ॥

 व्यभिचाराच्च । यथैकस्मिन्नङ्गनादिपिण्डविषये ज्ञाने समाने बहूनामुत्पन्ने कस्यचिदुपादानबुद्धिः, अन्यस्य हेयबुद्धिः, कस्यचिदुभयाभावः, तत्र हानोपादानबुद्धिर्व्यभिचरति । अन्यतरत्रैकमेव ज्ञानं तदेवोभयं व्यभिचरत्युपेक्षकस्य । यच्च यद्व्यभिचरति न तत्तस्य फलम् ॥


  1. उपपादयिष्याम इति मुद्रितपुस्तके पाठ: ।