पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/57

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
समाधिपादः प्रथमः

[ भाष्यम् ]

तत्र विक्षिप्ते चेतसि विक्षेपोपसर्जनीभूतः समाधिर्न योगपक्षे वर्तते ॥

[ विवरणम् ]

 अथापि स्यादिन्द्रियमनोऽर्थसन्निकर्षग्रहणादृते सुखदुःखाभाव इत्येतावति सति मुक्तस्यापि सुखदुःखाभावाद्योगित्वप्रसङ्ग इति तन्निवृत्यर्थं सूत्रशेषग्रहणमिति । तच्च न, मुक्तस्य सुखदुःखप्राप्त्यभावात् , प्राप्तिपूर्वप्रतिषेधस्य न्याय्यत्वात् , यस्य सुखदुःखप्राप्तिः, तद्विषयः सुखदुःखाभाव एव योग इति सूत्रशेषप्रत्याख्यानं युज्यते।

 किं चान्यत्—उपात्तेऽपि सशरीरग्रहणे मुक्ताद्विनिवृत्तिर्न शक्यते कर्तुम् , निष्प्रयोजनत्वात् । सुखदुःखाभावश्चेेद्योगः, विधमानमपि शरीरं कार्याकरणादनर्थकं स्यात् । कार्यानपेक्षायां हि मुक्तामुक्तयोरविशेष एव ॥

 कि चान्यत्---प्राणमनोविनिग्रहापेक्ष इत्यपि न घटते । बिधारकस्य प्रयत्नस्यात्मसमवेतत्वादविद्यमानेऽपि मनसः क्रियावत्त्वे इन्द्रियेणासंयुज्य मनः प्राण- [मनो)निग्रहौ न कर्तुं पर्याप्यते । इन्द्रियसंयोगे च मनसः तदनारम्भ इत्ययुक्तम् । मनसश्च प्राणनिग्रहे व्यापृ(वृ)तत्वादनारम्भानुपपत्तिः ।  न चासति इन्द्रियवायुसन्निकर्षे प्राणनिग्रहः । न चानिगृहीते प्राणे योगः, आत्मस्थविधारकप्रयत्नद्वारा मनोगतक्रियासंबन्धहेतुत्वात् प्राणनिग्रहस्य । अथापि स्याद्योगः समाधिरिति । तच्च न, निष्क्रियत्वादात्मनो नित्यसमाधानमेव । स्थितिश्व समाधिरित्युच्यते । तस्माद्युक्तमभिधीयते—‘स च सार्वभौम श्चित्तस्य धर्मः’ इति ॥

 यद्येवं समाधिश्चेद्योगः , स च सार्वभौमश्चित्तधर्मः, स च सर्वजनानाम- यत्नसिद्धः, क्षिप्ताद्यनुगतत्वात् । तथा च सति, यथैव श्वासप्रश्वासादीनां प्रयत्नादृते सिद्धत्वात्तत्करणम(ल्लक्षणम)नर्थकम् , एवं योगानुशासनमप्यनर्थकं प्राप्तमित्यत आह--[तत्र] विक्षिप्ते (अनविक्षिप्ते) चेतसि विक्षेपोपसर्जनीभूतः समाधिर्न योगपक्षे वर्तत इति । क्षिप्ताद्यनुगतस्य योगपक्षेऽनभिप्रेतत्वात् । न हि क्षेपाद्यनुगतः समाधिर्भूतार्थावद्योतनादिक्षमः, क्षेपादिप्रधानत्वात् । विक्षेपनिषेधेनैव हि प्रधानमल्लनिबर्हणन्यायेन क्षिप्त मूढयोरपि निषेधः कृतः । प्रधानता च विक्षेपसमाधेरधिकारयोग्यत्वात् । विक्षेपस्थं हि चितमपक्षपातादिष्टं विषयमुपनेतुं शक्यते । न हि विषयासञ्जनादिना क्षिप्तमिष्टविषयवियोगादिना वा मूढमन्यथोपनेतुं पार्यते |