पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/58

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
पातञ्जलयोगसूत्रभाष्यविवरणे

[ भाष्यम् ]

 यस्त्वेकाग्रे चेतसि स भूत(सद्भूत)मर्थं प्रद्योतयति, क्षिणोति च क्लेशान्, कर्मबन्धनानि श्लथयति, निरोधमा(मभि)मुखी(खं)करोति स संग्रज्ञातः(योग)इत्याख्यायते ॥  स च वितर्कानुगतो विचारानुगत आनन्दानुगतोऽस्मितानुगत इत्युपरिष्टात् (नि)प्रवेदयिष्यामः ॥ १ ॥

[ं विवरणम् ]

 योगपक्ष इति ॥ समाधित्वे सत्यपि कार्याकरणात् पक्ष इत्युच्यते । यथा गच्छतः प्रतिपदं विद्यमानापि स्थितिः स्थितिकार्याकरणान्न स्थितिरित्युच्यते । विक्षेपोपसर्जनीभूतत्वं विक्षेपस्यैकसमाधिव्यक्त्यभिप्रायेण । सार्वभौम इति तु प्राधान्यं, सामान्येन सर्वभूमिषु वृत्तेः ॥

 यद्युपसर्जनीभावः समाधिपक्षावृत्तौ कारणम् , इहाप्येकाग्रे एकाग्रतोपसर्जनत्वं स्यात् । ततश्च योगपक्षावृतिरिति चेदत आह-यस्त्वेकाग्र इति । नैकाग्रतायां भूम्युपसर्जनत्वम् । कुतः ? क्लेशकर्माप्रबलत्वात् । क्लेशकर्माप्रबलत्वे न हि विक्षेपादीनामुदयः ।

 एकाग्रताभूमौ समाधिर्यः स भूतमर्थं यथात्मानं प्रद्योतयति अवगमयति । अयोग्यर्थज्ञानमयथाभूतत्वगन्धितमेवेति भूतग्रहणम् । क्षिणोति, क्षपयति, पञ्चपर्वणोऽविद्यादीन् क्लेशान् । कर्मबन्धनानि, कर्माण्येव बन्धनानि, धर्माधर्मविमिश्रकर्मजातानि जन्मादिनिबन्धनानि, श्लथयति, शिथिलीकरोति, निरोधमामुखीकरोति, अभिमुखीकरोति । स. सम्प्रज्ञात इत्याख्यायते आचार्यैः ॥

 स च वितर्कानुगतो विचारानुगत इत्यादिभाष्यम् । सम्प्रज्ञातस्य प्राथम्याल्क्षणाभिधाने प्राप्ते, अभ्यर्हितत्वादसम्प्रज्ञातस्यैव लक्षणं युक्तमिह वक्तुमिति सम्प्रज्ञातमुपरिष्टात् प्रवेदयिष्याम इत्युच्यते । इतश्चासम्प्रज्ञातस्य लक्षणमिहैव वक्तव्यं, सम्प्रज्ञातनिरोपेक्षोऽप्यसम्प्रज्ञातः पर(प्रकृष्ट)वैराग्यविरामप्रत्ययाभ्यासाभ्यां सिध्यतीत्येतत्प्रदर्शनार्थम् । इह सम्प्रज्ञातलक्षणाभिधाने तदुत्तरकाले चासम्प्रज्ञातलक्षणाभिधाने सम्प्रज्ञातापेक्षयैव असम्प्रज्ञातसमाधावधिकार इत्याशङ्का स्यात्, तस्मादुपरिष्टात् प्रवेदयिष्याम इत्याह ॥ १ ॥