[ भाष्यम् ]
तस्मादनुपायः सुखस्य भोगाभ्यास इति । स खल्वयं वृश्विकविषभीत इवाऽऽशीविषेण दष्टः, यः सुखार्थी विषयानुवासितो महति दुःखपङ्के निमग्न इति । एषा परिणामदुःखता नाम प्रतिकूला सुखावस्थायामपि योगिनमेव क्लिश्नाति|
अथ का तापदुःखता? सर्वस्य द्वेषानुविद्धश्चेतनाचेतनसाधनाधीनस्तापानुभव इति तत्रास्ति द्वेषजः कर्माशयः ।
[ विवरणम् ]
{{gap}}कौशलानि नैपुणानि च भोगाभ्यासेष्विन्द्रियाणामनु विवर्धन्ते । यद्यपि मन:कौशलपूर्वकमिन्द्रियाणां कौशलं, तथाऽपि दृश्यत एव भिक्षा[क्ष्वा]दीनामिन्द्रियस्यापि कौशलम् । तस्मादनुपायः सुखस्य भोगाभ्यास इति भोगाभ्यासान्निवृत्तिरेव सुखम् ॥
स खल्वयं वृश्चिकभीत इवाशीविषेण दष्टो यः सुखार्थी विषयानन्ववसितः अन्ववबद्धः अनुप्रवृत्तोऽनुव्यवसितो वा, यथा मन्दविषाद्वृश्चिकादुपजातभीति: पटुतरेणाशीविषेण ग्रस्तो महतरं दु:खमभिप्रपद्यते,
तथाऽयमप्रदुःखाभासायाः परिणाममहासुखाया निवृत्तो दुःखबुद्ध्या भीतः सन्नपारे महति दुखपङ्के मग्न इत्येषा परिणामदु:खता सुखस्य प्रतिकूला सुखावस्थायामपि योगिनः । स हि योगी प्रवृत्तवेपथुनैव हृदयेन प्रतिनियतवेदनीयस्य कुर्मणो बलीयस्त्वादनुभुङ्क्ते सुखम् । तस्मात् सर्वं दुःखं विवेकिनः ॥
अथ तापदुःखता व्याख्यायते-सुखोपभोगस्तु परिणममानः सन्ननुबन्धे विज्ञाते विषदिग्धस्वादुदध्योदनोपभोगवद्द्दुःखीभवति, स्वरूपतः पुनरविद्यारूपोऽनुकूलवेदनागन्धोऽपि । इह पुनः स्वरूपत__एव दुःखता तापस्य प्रतिकूलात्मकत्वात् ॥
कथम् ? सर्वस्य द्वेषानुविद्धः द्वेषानुगतः चेतनाचेतनसाधनाधीनः शत्रुकण्टकादिसाधनायंत्त: तापानुभवः पूर्ववदेवधर्मफलमनुभवतेि अपूर्वश्चोपचीयमानः तत्रास्ति द्वेषजः कर्माशयः ॥