पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/182

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
१३४
पातञ्जलयेागसूत्रभाष्यविवरणे

[ भाष्यम् ]

 नवेव शशाङ्कलेखा कमनीयेयं कन्या मध्वमृतावयवनिर्मितेव, चन्द्रं भित्त्वा निःसृतेव ज्ञायते, नीलोत्पलपत्रायताक्षी हावगर्भाभ्यां लोचनाभ्यां जीवलोकमाश्वासयन्तीवेति, कस्य केनाभिसम्बन्धः । भवति चैवमशुचौ शुचिविपर्यासप्रत्यय इति ।

 एतेन अपुण्ये पुण्यप्रत्ययः, तथैवानर्थे चार्थप्रत्ययो व्याख्यातः ।

 तथा दुःखे सुखख्यातिं वक्ष्यति--"[१]परिणामतापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः" इति । तत्र सुखख्यातिरविद्या ।

 तथा अनात्मन्यात्मख्यातिः--बाह्योपकरणेषु चेतनाचेतनेषु, भोगाधिष्ठाने वा शरीरे, पुरुषोपकरणे वा मनसि, अनात्मनि आत्मख्यातिः,इति ।

[ विवरणम् ]

 नवेव शशाङ्कलेखा कमनीयेयं कन्या अमृतावयवनिर्मितेव चन्द्रं भित्त्वेव निस्सृता ज्ञायते नीलोत्पलपत्राक्षी भावगर्भाभ्यां लोचनाभ्यां जीवलोकं समाश्वासयन्तीति कस्य केनाभिसंबन्धो भवतीति । क्व शरीरादियाथात्म्यं, क्व भवत्येवमशुचौ (क्वचिद्वि) शुचिविपर्यास इति ॥

 एतेनापुण्ये पुण्यप्रत्ययः, यथा संसारमोचकानां, तथैवानर्थे चार्थप्रत्ययो व्याख्यातः, यथा तस्कराणाम् ॥

 तथा दुःखे सुखख्यातिं वक्ष्यति । 'परिणाम[२] तापसंस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः' इति । तत्र सर्वस्मिन् संसारे दुःखे सुखख्यातिरविद्या ॥

 तथा अनात्मन्यात्मख्यातिर्बाह्योपकरणेषु चेतनाचेतनेषु गवादिघटादिषु भोगाधिष्ठाने वा शरीरे पुरुषोपकरणे वा मनस्यनात्मन्यात्मख्यातिरिति ॥

 अत्रोच्यते--कस्य पुनर्मनस्यनात्मन्यात्मख्यातिरिति ? ननु मनस एव ख्यातिः, किं चोद्यते--यावता अविद्या विपर्ययश्चित्तवृत्तिरिति ह्युक्तम् । चित्तमेव प्राप्तचैतन्योपग्रहणरूपत्वादात्मानं चेतनमभिमन्यते 'अहं द्रष्टृ श्रोतृ वा अहमिदं ममे'ति चाविशेषेण ॥

  1. यो· सू· पा.२
  2. सू· 15·