पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/183

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
१३५
साधनपादो द्वितीयः

[ भाष्यम् ]

 तथैतदत्रोक्तम्[१]--"व्यक्तमव्यक्तं वा सत्वमात्मत्वेनाभिप्रतीत्य तस्य सम्पदमनु नन्दत्यात्मसम्पदं मन्वानः, तस्य व्यापदमनु शोचत्यात्मव्यापदं मन्वानः, स सर्वोऽप्रतिबुद्धः" इति ।

 एषा चतुष्पदा भवत्यविद्या मूलमस्य क्लेशसन्तानस्य कर्माशयस्य च सविपाकस्येति ।

 तस्याश्च अमित्रागोष्पदवत् वस्तुसतत्वं विज्ञेयम् ।

[ विवरणम् ]

 तथैतदत्र एतस्मिन्नर्थे उक्तं व्यक्तमव्यक्तं वा प्रधानादिकं शरीरेन्द्रियादि विषयविशेषपर्यन्तं किंचित् व्यक्तं आनुभाविकं,किंचिदानुमानिकमागमिकं अव्यक्तं वा सत्वमात्मत्वेनाभिप्रतीतः प्रतिपन्नः तस्य सम्पदमनु नन्दति तस्य व्यक्ताव्यक्त्तात्मकस्यात्मत्वेनावगतस्य सम्पदं समृद्धिं विभूतिमनु नन्दति अनु हृष्यति, आत्मसम्पदं मन्वानः 'सम्पन्नोऽहमनया सम्पदा, ममैषा सम्पदि'ति मन्यमानः । तस्य व्यापदं तस्य क्षयं अनु शोचति 'ममैषा व्यापदहमेव व्यापन्न' इति । स सर्व एवाभिमानी अप्रतिबुद्धः अज्ञ इति ॥

 एषा चतुष्पदी भवत्यविद्या । ननु चापुण्ये पुण्यख्यातिः पुण्ये अपुण्यख्यातिः इत्याभ्यां सह षट्पदीत्वम्--न--चतुर्ष्वेव पादेषु यथासंभवमन्तर्भावात् । अविद्या मूलं प्रभवबीजम् अस्यक्लेशसन्तानस्य अभिनिवेशान्तक्लेशानामनवरतप्रवर्तनस्य । किं च--कर्माशयस्य च त्रिविधस्य जात्यायुर्भोगलक्षणविपाकत्रयसहितस्य सकलस्य संसारस्येत्यर्थेः ॥

 तस्याश्च अविद्यायाः अमित्रागोष्पदवद्वस्तुसतत्वं वस्त्वन्तरत्वं विज्ञेयम् । किमर्थमिदमुच्यते । यावता विपरीतख्यातिरिति वस्तुसतत्वमुक्तमेव ॥

 अयमभिप्रायः--अविद्या इति नञ्समासोऽयं तत्पुरुषः, स चोत्तरपदार्थप्रधानो वा स्यात्, यथा राजपुरुष इति । यद्वा, पूर्वपदार्थप्रधानः, अर्धपिप्पलीति ॥

 तत्र यदि पूर्वपदार्थप्रधानस्तदानीं विद्यायाः प्रमाणस्याभाव (वादि) इति, यत्रैव विद्याप्रसङ्गो वृत्तिसामान्यात्तत्रैव (स्मृत्य)वृत्त्यन्तरादौ प्रतीतिरिति, अनिर्धारित-

  1. पञ्चशिखाचार्येण.