पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/177

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
१२९
साधनपादो द्वितीयः

[ भाष्यम् ]

विच्छिन्नाः । कथम् ? रागकाले क्रोधस्यादर्शनात् । न हि रागकाले क्रोधः समुदाचरति । रागश्च क्वचित् दृश्यमानो न विषयान्तरे नास्ति । नैकस्यां स्त्रियां चैत्रो रक्त इत्यन्यासु स्त्रीषु विरक्तः । किं तु तत्र रागो लब्धवृत्तिः, अन्यत्र तु भविष्यद्वृतिरिति । स हि तदा [१]प्रसुप्ततनुविच्छिन्नो भवति ।

[ विवरणम् ]

 यदि वा विच्छिद्य विच्छिद्य विच्छेदकाले ते व्यक्तेनात्मना स्वरूपेण पूर्वोत्तरकालवत् समुदाचरन्ति ॥

 तत्रोदाहरणम्--कथं ? रागकाले क्रोधस्यादर्शनात् । न हि रागकाले क्रोधः समुदाचरति । कुत: रूपातिशयानां वृत्त्यतिशयानां च विरोधात् । स हि रागोदयात्तिरोभूतोऽन्येनाव्यक्तेनात्मना वर्तत इति विच्छिन्नः ॥

 तथारागश्च क्वचिद्दृश्यमानो न विषयान्तरे नास्ति । । कुतः ? विषयविरोधादत्र । पूर्वत्र रागेण विरोधादसमुदाचरणं क्रोधस्य । अत्र तु विषयाणामन्योन्यविरोधात् । न हि विषय एकस्मिन्नुपजनयति रागं विषयान्तरमपि तस्यैव रागस्योत्पादकम् ॥

 तद्यथा--नैकस्यां स्त्रियां चैत्रो रक्त इत्यन्यासु विरक्तः ।किन्तु तत्र रागो लब्धवृत्तिः। यस्यां रक्तः । अन्यत्र भविष्यद्वृत्तिः अन्यासु स्त्रीषु स हि भविष्यद्रागव्यक्तिविशेषः तदा प्रसुप्तस्तनुर्वेति ॥

 ननु च 'रागश्च कचित् दृश्यमान' इत्यादि भाष्यं किमर्थं ? ननु रागस्वभावाख्यानं, इत्थं विषयभेदाल्लब्धभविष्यद्वृत्तिस्वभावो राग इति--सत्यम्--तथाऽपि प्रक्रान्तानुपयोगः । प्रक्रान्तं हि विच्छेदव्याख्यानं । न चैतद्विच्छेदव्याख्यानम् । नापि वक्ष्यमाणोदारव्याख्यानेन सम्बन्धः । तस्य निराकाङ्क्षत्वात्।

 एवं तर्हि पूर्वशेष एवायम् । कथम् ? एवं मन्यते, प्रसुप्ततनूदारत्वव्यतिरेकेण विच्छित्तिर्नाम धर्म एव नास्ति । कथम् ? यावन्न लब्धवृत्तिस्तावत्प्रसुप्त इत्युक्तम् । प्रतिपक्षभावनोपहतो मन्दप्रवृत्तिस्तनुरित्युच्यते ॥

17
 
  1. प्रसुप्तस्तनुर्वा इति विवरणानुसारी पाठः ।