पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/165

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११७
समाधिपादः प्रथमः

[ भाष्यम् ]

कथमसौ संस्काराशयाश्चित्तं साधिकारं न करिष्यतीति ? नते प्रज्ञाकृताः संस्काराः क्लेशक्षयहेतुत्वात् चित्तमधिकारविशिष्टं कुर्वन्ति । चित्त हि ते स्वकार्यादवसादयन्ति । ख्यातिपर्यवसानं हि चित्तचेष्टितमिति ॥ ५० ।।

  किञ्चास्य भवति----

[ सूत्रम् ]

तस्यापि निरोधे सर्वनिरोधान्निर्बीजः समाधिरिति ॥ ५१ ॥

इति श्रीमहर्षिपतञ्जलिविरचिते योगसूत्रे

प्रथमः समाधिपादः ॥

[ विवरणम् ]

 अत्राह-समाधिप्रज्ञाभवः संस्काराशयश्चित्तस्याधिकारप्रवृत्तिहेतुः, प्रत्य यप्रभवत्वात्, व्युत्थानप्रभवसंस्काराशयवदिति, तथा चित्तसंस्कारत्वाच्चेति । तदेतद्दर्शयति--कथमसौ संस्काराशयः चित्तं साधिकारं संस्कारोपेतं न करिष्यतीति ? ॥

 नैष दोषः---तद्विरोधित्वात् । कथं ? ते संस्काराः क्लेशक्षयहेतुत्वा च्चित्तमधिकारविशिष्टं न कुर्वन्ति । व्युत्थानप्रत्ययप्रभवानां हि संस्काराणाम विद्यादिक्लेशहेतुत्वाच्चित्तसंस्काराभिमुखभावकारणता । तद्विरोधिप्रत्ययप्रभवत्वात्तु न समाधिजप्रत्ययजन्मनां संस्काराणामधिकाराभिमुख्यनिमित्तता ।।

 किञ्च-चित्तञ्च ते स्वकार्यात् संस्काराभिमुखवृत्तिभ्येऽवसादयन्ति विरमयन्ति । ख्यातिपयर्वसानं हि चित्तविचेष्टतम् । पुरुषख्यातिश्च जाता संस्कारश्व भवतीतेि विरुद्धम् ॥

 यो हि विगततृष्णासमुदायो, नासौ पानीयं पिपासति । एतावदेव चित्तेन पुरुषस्य करणीयम् । न हि कश्वित् कृत करणीयं चिकीर्षति ॥ ५० ॥