पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/166

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
११८
पातज्ञलयोगसूत्रभाष्यावेवरणे



[ भाष्यम् ]

 स न केवलं समाधिप्रज्ञाविरोधी, प्रज्ञकृतानामपि संस्काराणां प्रतिबन्धी भवति ! कस्मात् ? निरोधजः संस्कारः समाधिजान् संस्कारान् बाधत इति ।

निरोधस्थितिकालक्रमानुभवेन निरेाधचित्तकृतसंस्कारास्तित्वमनु मेयम् ।

[ विवरणम् ]

 किञ्च—तस्यापि निरोधे सर्वनिरोधान्निर्बीजस्समाधिरिति । इति शब्दः परिसमाप्त्यर्थः । तस्यापि समाधिप्रज्ञाप्रभवस्य_संस्कारस्याभिनवस्य निरोधे अपिशब्दात्संस्कारकारणस्य समाधिप्रज्ञाया अपि निरोधे, सर्वनिरोधो भवति | उक्तमेवोपायद्वयम् परवैराग्यविरामप्रत्ययाभ्यासाख्यं त्तन्निरोधस्य ॥

 किं पुनस्तत्सर्वं ? यन्निरोत्स्यते । व्युत्थानसमाधिप्रज्ञातत्संस्काराः । तस्मात् सर्वनिरोधान्निर्बीजः समाधेिः

 स न केवलं ऋतम्भरप्रज्ञाजनितसंस्कारः समाधिप्रज्ञानिरोधी, यथैव तां समाधिप्रज्ञामृतम्भरां निरुणद्वि, तथैवात्मना सहात्मसजातीयानां स्वकारणप्रज्ञाकृतानां संस्काराणामपि प्रतिबन्धी निरोधाद्भवति॥

 कस्मात् ? निरोधजः संस्कारः यस्मात्समाधिप्रज्ञायास्तज्जन्मनश्च संस्कारस्य निरोधे, निरोधकः समाधिंप्रज्ञाजनितसंस्कारादन्यो जायते, स चापि यतः समाधिप्रज्ञां तज्जनितसंस्कारांश्चातिरस्कृत्य न जन्म प्रतिपद्यते, तस्मात्स निरोधजः संस्कारः समाधिजान्संस्कारान्बाधत इति ॥

 कथं पुनरसैो निरोधजः संस्कारोऽस्तीति गम्यते ? विद्यमानेऽपि स बाघको भवतीति ? आह-निरोधस्थितिकालक्रमानुभवेनेति । निरोधस्य स्थितिस्तस्याः कालः स च कालः क्रमेणानुभूयते, यतः प्रत्यभ्यासमभिवर्धते, तस्मात्तेन निरोधस्थितिकालक्रमानुभवेन निरोधचित्तकृतं निरोधावस्थचित्त कृतं संस्कारास्तित्वमनुमेयम् ॥