पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/158

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्
११०
पातञ्जलयोगसूत्रभाष्यविवरणे


[ सूत्रम् ]

एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता॥४४॥

[ भाष्यम् ]

 तत्र भूतसूक्ष्मकेष्वभिव्यक्तधर्मकेषु देशकालनिमितानुभवावच्छिन्नेषु या समापत्तिः सा सविचरेत्युच्यते । तत्राप्येकबुद्विनिर्ग्राह्ममेवोदितधर्मविशिष्टं भूतसूक्ष्ममालम्बनीभूतं समाधिप्रज्ञायामुपतिष्ठते ।या पुनः सर्वथा सर्वतः शान्तोदिताव्यपदेश्यवर्मानवच्छिन्नेषु

[ विवरणम् }

 एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता । तत्र भूतसूक्ष्मेष्वभिव्यक्तधर्मकेषु तन्मात्रेष्वेव देशकालनिमित्तानुभवावच्छिन्नेषु देशावच्छिन्नेषु कालावच्छिन्नेषु निमित्तावच्छिन्नेष्वनुभवावच्छिन्नेष्विति प्रत्येक- मवच्छिन्नशब्दः । सर्वं हि वस्तु देशादिभिरवच्छिद्यमानं विषयिणा ज्ञात्रा संबध्यमानं व्यवहाराय कल्पते । तेष्वेवंभूतेष्वेवंभूतैव देशादिविकल्पाभिसंहितैव या समापत्तिः सा सविचारेत्युच्यते । ततश्च सविचारायाः सवितर्का विशेषत्वं सिद्धम् ॥

 कथम् ? इहाप्यध्यासविशेषात् । अयन्तु विशेषः शब्दसङ्केतार्थ- ज्ञानदेशादिसर्वाध्यासाः सवितर्कायाम् ॥

 इह पुनस्तन्मात्रसूक्ष्मधर्मेषु शब्दसङ्केतस्याप्रसिद्धत्वाद्विशिष्टनामसङ्केत- ज्ञानानध्यासः देशाद्यध्यासश्च सूक्ष्मविषयत्वश्चेति सवितर्काविशेषत्वसिद्धिः ॥

 तत्राप्येकबुद्धिनिर्ग्राह्ममेवोदितधर्मविशिष्टं उक्त्तदेशादिधर्मविशिष्टमु- द्भूतधर्मविशिष्टं वा भूतसूक्ष्ममालम्बनीभूतं न तु निर्विषयं ज्ञानमेव समाधि प्रज्ञायामुपतिष्ठते ॥

 यदा पुनः सर्वथा सर्वप्रकारेण सर्वतः सर्वत्र शान्ताश्चोदिताश्वाव्य- पदेश्याश्च ये धर्मास्ते शान्तोदिताव्यपदेश्यधर्माः तैः अनवच्छिन्नेषु । शान्त इति यो व्यापारं कृत्वोपरतो धर्मः । उदित इति यो व्यापारमारूढ़: । अव्यपदेश्य इति न शान्तो नाप्युदितः नाप्युद्भावयद् दृश्यमाननिमित्तः । तद्यथा--- सुवर्णस्यादृष्टानेकाश्रुताकारोपजनशक्तयस्ता अव्यपदेश्या धर्माः। तैरनवच्छिन्नेषु