पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/159

विकिस्रोतः तः
Jump to navigation Jump to search
पुटमेतत् सुपुष्टितम्



१११
समाधिपादः प्रथमः

[ भाष्यम् ]

सर्वधर्मानुपातिषु सर्वधर्मात्मकेषु समापत्तिः सा निर्विचारित्युच्यते । एवंस्वरूपं हि तद्भूतसूक्ष्ममेतेनैव स्वरूपेणालम्बनीभूतमेव समाधि- प्रज्ञास्वरूपमुपरञ्जयति

 प्रज्ञा च स्वरूपशून्येवार्थमात्रा यदा भवति, तदा निर्विचारेत्यु- च्यते । तत्र महद्वस्तुविषया सवितर्का निर्वितर्का च ।। सूक्ष्मवस्तुविषया सविचारा निर्विचारा च । एवमुभयोरेतथैव निर्वेितर्कया विकल्पहानिर्व्याख्यातेति ॥ ४४ ॥

[ सूत्रम् ]

 

सूक्ष्मविषयत्वञ्चालिङ्गपर्यवसानम् ॥ ४५ ॥

[ विवरणम् ]

भूतसूक्ष्मेषु सर्वधर्मानुपातिषु सर्वान्धर्माननुपतन्ति तानि सूक्ष्माणि सर्वविशेषारम्भ- कत्वात् । सर्वात्मकेषु सर्वेभ्यो विषयेभ्योऽनन्यत्वात्तन्मात्राणाम् । तत्र या समापत्तिः सा निर्विचारेति । निर्वितर्काया यल्लक्षणं तत्सर्वमिह निविचारायां द्रष्टव्यम् ।

 तद्दर्शयति--एवंस्वरूपं हि तद्भूतसूक्ष्ममनेनैव स्वरूपेण देशकाल निमित्तानुभवादिविशेषविरहितेन सर्वात्मकेन सर्वधर्मानुपातिना आलम्बनीभूतमेव समाधिप्रज्ञामुपरञ्जयति ॥

 प्रज्ञा च स्वरूपशून्येवार्थमात्रा यदा भवति तदा निर्विचारा तस्मन्निर्वितर्काविशेषा निर्विचारा । तत्स्वयमेव दर्शयति-महद्वस्तुविषया । महतः वस्तु महद्वस्त्वति समासः राहुशिर इति यथा । तद्विषयो यस्याः सा महद्वस्तु विषया सवितर्का निर्वेितर्का च सूक्ष्मवस्तुविषया सविचारा निर्विचारा चेति

 एतयैव सवितर्कनिर्वेितर्काख्यया द्वय्या समापत्त्या सविचारा निर्विचारा च समापत्तिर्द्वयी व्याख्याता । उभयोरिति सवितर्कनिर्वितर्कयोर्मध्ये एतयैव निर्वितर्कया वितर्कहानिर्व्याख्याता निर्विचारा व्याख्यातेति । सविचारा चार्थात्स वितर्कया व्याख्याता लक्षणत्योभयत्र समानत्वात् । उक्तश्च विशेषः ।। ४४ ॥

 सविचारा निर्विचारा च समापत्तिः सूक्ष्मविषयेत्युक्तम् । तत्प्रसङ्गेनेदं चिन्त्यते-कि(मसमानं)मवसानं सूक्ष्मविषयत्वमिति|

सूक्ष्मविषयत्वञ्चालिङ्गपर्यवसानम्।पार्थिवस्याणो र्गन्धमात्रस्वरूपमात्रतेति पृथिवीसमीक्षया सूक्ष्मो विषयः