पृष्ठम्:पातञ्जलयोगसूत्रभाष्यविवरणम्.pdf/101

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५१
समाधिपादः प्रथमः

[ सूत्रम् ]

श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वक इतरेषाम् ॥ २० ॥

[ भाष्यम् ]

 उपायप्रत्ययो योगिनां भवति । श्रद्धा चेतसः सम्प्रसादः । सा हि जननीव कल्याणी योगिनं पाति । तस्य हि श्रद्दधानस्य विवेकार्थिनो वीर्यमुपजायते । समुपजातवीर्यस्य स्मृतिरुपतिष्ठते । स्मृत्युपस्थाने च चित्तमनाकुलं समाधीयते । समाहितचित्तस्य प्रज्ञाविवेक उपावर्तते, येन यथार्थं वस्तु जानाति । तद्भ्यासात्तद्विषयाच्च वैराग्यात् असम्प्रज्ञातः समाधिर्भवति ॥२०॥

 ते खलु नव योगिनो भवन्ति मृदुमध्याधिमात्रोपायाः । तद्यथा-मृदूपायो मध्योपायोऽधिमात्रोपाय इति । तत्र मृदूपायास्त्रिविधः-मृदुसंवेगो मध्यसंवेगस्तीव्रसंवेग इति । तथा मध्योपायस्तथाऽधिमात्रोपाय इति । तत्राधिमात्रोपायानाम्‌--

[ विवरणम् ]

 येषामुपायप्रत्ययो योगिनां, तेषां श्रद्धावीर्यस्मृतिसमाधिप्रज्ञापूर्वकः समाधिः, श्रद्धा नामापवर्ग:प्राप्तौ तत्साधनश्रवणे च कतकफलसंपर्क इव सलिलस्य चेतसः [सम्प्रसाद:] संप्रसत्तिः । सा हि जननीव कल्याणी योगिनं पाति रक्षत्यशुभेभ्यः । तस्य हि विवेकार्थिनः सम्यग्दर्शनार्थिनो वीर्यम् उत्साह उपजायते योगसाधनानुष्ठानं प्रति । सञ्जातवीर्यस्यागमज्ञानादिविषया दृढ़तरा स्मृतिरुपतिष्ठते । विवेकार्थिन इति सर्वत्रानुषज्यते ॥

 दृढस्मृत्युपस्थाने च चित्तमनाकुलं समाधीयते । समाहितचित्तस्य प्रज्ञाया बुद्धेः विविक्तता सर्वार्थप्रकाशनसामर्थ्यम् । त(था)त् विशिनष्टि-येन यथाभूतम् आत्मादि वस्तु जानाति इति ॥

 तद्भ्यासात्--एतदुक्तं भवति--आत्मदर्शनविरामप्रत्ययाभ्यासादिति । तद्विषयाच्च__वैराग्य(ख्याद्विषया)त् परस्माद्वैराग्यादिति । असम्प्रज्ञातः समाधिः इति॥२०॥

 तेऽपि श्रद्धादिसाधना नव(नुप)योगिनो भवन्ति । तद्दर्शयति--तद्यथा मृदूपायो मध्योपायोऽधिमात्रोपाय इति । तेषामॆकैकस्त्रिधा भिद्यते--तत्र मृदूपाय इति । साधनानुष्ठानं प्रति मन्दोपक्रमो मध्योपक्रमः ती(व्रसंवेगो)व्रोपक्रम इति । एवमितरत्रापीति । नात्र तिरोभूतम्(त्) ॥