[ सूत्रम् ]
तीव्रसंयोगानामासन्नः ।। २१ ।।
[ भाष्यम् ]
समाधिलाभः समाधिफलं च भवति इति ।। २१ ॥
[ सूत्रम् ]
मृदुमध्याधिमात्रत्वात्ततोऽपि विशेषः ॥ २२ ॥
[ भाष्यम् ]
मृदुतीव्रो मध्यतीव्रोऽधिमात्रतीव्र इति । ततोऽपि विशेषः तद्विशेषादपि, मृदुतीव्रसंवेगस्यासन्नः, ततो मध्यतीव्रसंवेगास्यासन्नतर:, तस्मादधिमात्रतीव्रसंवेगस्याधिमात्रोपायस्याप्यासन्नतमः समाधिलाभः समाधिफलं चेति ॥ २२ ।।
[ भाष्यम् ]
किमेतस्मादेवासन्नतरः समाधिर्भवति, अथास्य लाभे भवत्यन्योऽपि कश्चिदुपायो न वा इति
[ सूत्रम् ]
ईश्वरप्रणिधानाद्वा ।। २३ ॥
[ विवरणम् ]
तत्राधिमात्रोपायानां तीव्रसंवेगानामासन्नः समाधिलाभः समाधिफलं च ॥ २ १ ॥ तेषामपि मृदुमध्यतीव्रोपक्रमतया विशिष्यमाणत्वाततो[ऽपि]विशेषः साधनानुष्ठानसंस्कारस्य । तद्विशेषादप्युत्तमस्य समाधिलाभः प्रत्यासीदतितराम् ॥ एतदस्य सूत्रस्य प्रयोजनम्-योगसाधनानुष्ठानं प्रति योगिनः कथमुपबृंहितोत्साहा भवेयुरिति । यथा लोके द्रुततरं सीमान्तं परि[प्रति]धावतामेतत्फलं भवतीति तद्वत् | अथवा-मन्दमन्दतरोपक्रमाणामपि योगिनामभिमतफलावाप्तिप्रकाशनादनवसन्नचेतसः प्रवर्तेरन्निति । इतरथा तीव्रतरायासजनितभीतयोऽवसीदेयुरिति ॥ २२ ॥
किमेतस्मादेवासन्नतरो भवति ? अथ (तस्य) अस्य लाभे भवत्य न्योऽपि कश्चिषुपायो न वेति । उपायान्तरमस्तीत्याह--ईश्वरप्रणिधानाद्वा । ईश्वरशब्दार्थमुत्तरत्र व्याख्यास्यति | प्रणिधानमिह व्याचष्टे-भक्तिविशेषा