पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/९१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

४ काव्यमाला।

प्रख्यातः सूनुरस्यायमश्वत्थामेति नामतः ।
न परं पितरं मूर्त्या योऽनुचक्रे गुणैरपि ॥ २५६ ॥
इत्याख्याय बिसृष्टेषु कुमारेषु मुदा कृपः।
द्रोणाचार्याय विदधावातिथ्यमतिथिप्रियः ॥ २५७ ॥
प्रसन्नमन्यदा द्रोणं व्याजहार रहः कृपः ।
प्रणयात्प्रार्थ्यसे किंचिन्नान्यथा कर्तुमर्हसि ॥ २५८ ॥
चापाचार्यस्त्वदन्योऽस्ति यथा न भुवनत्रये ।
तथामीभ्यः कुमारेभ्यो नास्ति सप्रतिभः परः ॥ २५९ ॥
व्याकुरुष्व तदा तेभ्यश्चापोपनिषद निजाम् ।
स्थानन्यासेन विद्यायास्त्रैलोक्यप्रथितो भव ॥ २६० ॥
शालिबीजं च विद्यां च वप्नुकामैर्मनीषिभिः ।
सुक्षेत्रं च सुपात्रं च विना पुण्यैर्न लभ्यते ॥ २६१ ॥
एतावद्भिर्दिनैरेते भित्तिवच्चित्रकर्मणाम् ।
मया त्वदुपदेशानामुपानीयन्त योग्यताम् ॥ २६२ ॥
तथेत्यङ्गीकृते तेन गत्वा भीष्मान्तिकं कृपः ।
सर्वमावेदयामास द्रोणवृत्तान्तमादितः ॥ २६३ ॥
द्रोणाचार्यमथाकार्य सत्कृत्य कनकोत्करैः ।
अर्पयामास गाङ्गेयः पौत्रान्याहयितुं कलाः ॥ २६४ ॥
तदा वैकटिकस्येव माणिक्येषु सुजातिषु ।
संस्कारस्तेषु सर्वेषु दिदीपे सुतरां गुरोः ।। २६५ ॥
संयोगो गुरुशिष्याणामन्योन्यं प्रीतिशालिनाम् ।
तेषामत्यद्भुतः सोऽभूदिन्दुकैरवयोगवत् ॥ २६६ ॥
वृष्टिं मेघ इवाचार्यः शिक्षां समतया ददौ ।
सा त्वाधारवशाभ्रे परिणाम पृथक्पृथक् ॥ २६७ ॥
उपदिष्टं धनुर्वेदं सर्व वेत्ति स्म फाल्गुनः ।
विवेदानुपदिष्टं तु स्वयं शुश्रूषणं गुरोः ॥ २६८ ॥