पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जैनकविः श्रीदेवप्रभसूरिः कदा समुत्पन्न इति समुपस्थिते विचारे श्रीधरकृताया
न्यायकन्दल्या वृत्ति रचितवता राजशेखरेण स्वग्रन्थे लिखिता एते लोका दृष्टिपथ-
मागताः ---
1
श्रीप्रश्नवाहनकुले कोटिकनामनि गणे जगद्न्ये ।
श्रीमध्यमशाखायां वंशे श्रीस्थूलिभद्रमुनेः ॥ १ ॥
गच्छे हर्षपुरीये श्रीमज्जयसिंहसूरिवरशिष्यः |
पष्टाश्रमीत्रतत्तपाः षड्कृितित्यागसाहसिकः ॥ २ ॥
भूमिका ।
31
reb
...
..
...
...
...
699
तत्क्रमिको देवप्रभसूरिः किल पाण्डवायनचरित्रम् |
श्रीधर्मसारशास्त्रं च निर्ममे सुकविकुलतिलकः ॥ १३ ॥
...
...
...
राजशेखरोऽयं कदासीदिति तु डेक्कनकालेजपुस्तकालये विद्यमानान्यायकन्दलीपुस्त-
कादेवं ज्ञायते यदय १४८० शकसंवत्सरात्पूर्वमेवासीदिति । यतस्तत्पुस्तकशकाकोऽयं
( १४८०=A D ) स्पष्टमेवोल्लिखितः । अतः शकादस्मात् पूर्वभवत्वं सिद्धमेवास्य
पाण्डवचरितविधातुर्देवप्रभस्य | सोऽयं देवप्रभसूरिः कोटिकगणमध्यमशाखायां श्री-
प्रश्नवाहन वंश्ये हमेपुरीयगच्छे समासीदिति पाण्डवचरितस्यैवान्ते समासादितयानया
अंशस्त्या विद्मः --
श्रीको टिकाख्यगणभूमिरुहस्य शाखा
या मध्यमेति विदिता विटपोपमास्याः |
श्रीप्रश्नवाहनकुले सुमनोऽभिरामः
ख्यातोऽस्ति स्वच्छ इव हर्षपुरीयगच्छः ||
तत्राजनि श्रुतसुधाम्बुधिरिन्दुरोचि:-
स्पर्धिष्णुकीर्तिविभवोऽभयदेवसूरिः ।
शान्तात्मनोऽप्यहह निस्पृह चेतसोऽपि
यस्य क्रियाखिलजगज्जयिनी वभूव ॥
यद्धकीड इवावतीर्थ परमज्योतिर्विवर्तः क्षितौ
तत्पद्वे चरचन्द्रमाः समजनि श्रीहेमसूरिप्रभुः ।
-
१. टाक्टर पीतरसनमहोदयस्य तृतीये रिपोर्टपुस्तके १३२ संख्याकमथ २७५
मयार्क चे पत्रमवलोक्यम्.