पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

काव्यमाला ।

गौरवार्हविशेषेण तं पाण्डुपृथिवीपतिः।
सत्कृत्य कृत्यनिष्णातः स्नेहसारमवार्तयत् ॥ ४२ ॥
महीतलमिलन्मौलिमाश्वास्य विहितानतिम् ।
कुन्ती नितान्तवात्सल्यात्पृच्छति स्मेति कोरकम् ॥ ४३ ॥
श्वश्रूभिः सकृदप्यस्मि न विसृष्टा पितुर्गृहे ।
तद्ब्रूहि कुशलं कच्चिद्वन्धुवर्गस्य मेऽधुना ॥ ४४ ॥
बन्धुसंतानवृद्ध्या च मामानन्दय संप्रति ।
इति पृष्टोऽभवद्धृष्टो व्याकरोति स्म कोरकः ॥ ४५ ॥
श्रूयतां देवि साम्राज्यं देवेनान्धकवृष्णिना।
समुद्रविजये न्यस्य प्रव्रज्या स्वयमाददे ॥ ४६॥
भोजवृष्णेश्च तनयो मथुराराज्यमूर्जितम् ।
उग्रसेनः करोतीति प्रागपि ज्ञातवत्यसि ॥४७॥
ततःप्रभृति मे स्वामी समुद्रविजयोऽनुजान् ।
आत्मनोऽप्यधिकं पश्यन्नपात्सौर्यपुरं प्रजाः ॥ १८ ॥
पूर्वोपार्जितसौभाग्यः स्वच्छन्दं व्यचरत्पुरे ।
वसुदेवकुमारस्तु रेमे बन्धुप्रसादतः ॥ ४९ ॥
अन्यदा वसुदेवस्य तत्रत्यः पुत्रमात्मनः ।
वणिक् सुभद्रं कंसाख्यमर्पयामास सेवकम् ॥ ५० ॥
तथा कलाभिस्तेनापि कुमारः पर्यचर्यत।
समानमात्मनो मेने स यथा तमहर्निशम् ।। ५१ ।।
अस्ति चात्र जरासंधो राजा राजगृहे पुरे ।
स्वैरं क्रीडति यस्याज्ञा त्रिखण्डक्षितिमण्डले ॥ ५२ ॥
विसृज्य दूतमेतेन भूमण्डलबिडौजसा ।
अकस्मात्स्वामिनोऽस्माकमादिष्टमिदमन्यदा ॥ ५३ ॥
अस्ति निर्व्याजशौण्डीर्यसिंहः सिंहपुरे पुरे ।
नृपः सिंहरथो नाम स चाज्ञां नो न मन्यते ॥ ५४ ॥