पृष्ठम्:पाण्डवचरितं महाकाव्यम्.pdf/३६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

पाण्डवचरितम् ।

भीष्मं च धृतराष्ट्रं च पाण्डुं च विदुरं तथा ।
दृष्ट्यामून्वर्धयामासुर्जनाः शुद्धान्तवासिनः ।। २९ ॥
अम्बालिकाम्बिकाम्बानां सत्यवत्याश्च सत्वरम् ।
गत्वा दास्यः प्रसन्नास्याः पुत्रजन्म न्यवेदयन् ॥ ३० ॥
जातमात्रे सुते तस्मिन्बालार्कसमतेजसि ।
उच्चचार वियत्युच्चैरशरीरा सरस्वती ॥ ३१ ॥
असौ सत्यवतां मुख्यः सतामयः समग्रधीः ।
शौण्डीर्यस्थैर्यगाम्भीर्यवसतिविनयी नयी ॥ ३२ ॥
धर्मबद्धरतिभूपः सार्वभौमो भविष्यति ।
वार्द्धके व्रतमादाय निर्वाणं च गमिप्यति ॥ ३३ ॥
तत्समाकर्णनान्न स्युर्भीमादीनां मुदः कथम् ।
अपरेषामपि तदा हर्षं नाख्यातुमीश्महे ॥ ३४ ॥
स्वयमेव पुरे परैरुत्सवो निर्मितस्तदा।
आदेशस्तु विशांपत्युरभवसिद्धसाधनम् ॥ ३५॥
निःशेषदिविषद्वर्गप्रमोदपिशुनास्तदा ।
समाकर्ण्यत सानन्ददुन्दुभिध्वनयो दिवि ।। ३६ ॥
सुतस्य तस्य भीष्माद्यैः किचिद्वीक्ष्याङ्गलक्षणैः ।
युधिष्ठिर इति श्लाध्यमन्वर्थं नाम निर्ममे ॥ ३७ ।।
तपोधर्मैकनिष्ठायाः पृथाया जात इत्यसौ ।
लेभे नाम्ना तपःसूनुर्धर्मसूनुरिति क्षितौ ॥ ३८ ॥
तस्य पश्चादजातारिरिति त्रैलोक्यविश्रुतम् ।
तेन तेनावदातेन नामधेयमजायत ।। ३९ ॥
समाजग्मुर्महीपालैः प्रहितानि सहस्रशः ।
प्राभूतानि सहस्त्राणि पाण्डोरात्मजजन्मनि ॥ ४०॥
उपायनमुपादाय कुन्त्याः पितृगृहादपि ।
आययौ विकसद्रोमकोरकः कोरकस्तदा ॥४१॥