पृष्ठम्:पद्मिनीपरिणयः.pdf/९६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
1952.]
श्रीपद्मिनीपरिणये सप्तमोऽङ्कः

मिलि-(अपवार्य) पद्मिनीति भण ।

कुमु–(स्वगतम्) हन्त मे कौमुदीपरता, या स्खलयति गोत्रम् । (परिक्रामन्ति)

जीमू–(स्व)

यस्याः परिष्वङ्गनिबद्धकामः प्रतीक्षमाणस्समयं व्रतान्ते ।
आसं तदाप्तौ समुपस्थितायां हा हन्त साऽत्येति दृशोः पदं मे ॥

 (प्रकाशम्) सर्वत्र विचेतव्याऽत्र प्रिया ।

कुमु-हन्त महाशू्रस्य तव वशं प्रापितायाः स्वसुहृदपेक्षया किमिति मन्यमानोऽहं अन्यकार्यनिरतोऽभूवम् ।

मिलि-हळा ! तुमस्सिं पावस्स मतेभस्स वसं गताए किं मह जीविदेण । तदो विसं भख्खिअ विमुंचेमि पाणे । (त्वयि पापस्य मत्तेभस्य वशंगतायां किं मम जीवितेन । ततो विषं भक्षित्वा विमुञ्चामि प्राणान् । (इति उरस्ताडयति)

कुमु-

न दृश्यते तत्र सहोदरीति तातो ममोक्तिं स निशम्य सद्यः ।
असूनुपेक्षेत न संशयोऽत्र ततो मया तद्वदता न भाव्यम् ॥

 तदिहैव प्राणा मोक्तव्याः ।

जीमू–अरे दुरात्मन् ! मत्तेभ ।

अगणयन्मम शौर्यमनल्पकं प्रियतमामपहृत्य सुदुर्मतिः ।
निपतितोऽसि मदीयरुषः पदे क्व शरणं तव लभ्यमहो भवेत् ॥

कुमु-आर्य ! स दुरात्मा सत्वरं निपात्यः । अन्यथा क्वचिद्वने निलीनो भविष्यति भवतो भीतः ।

जीमू-दन्तान् कटकटापयन्

पातकी यातु पाताळं पातु वः तं सुरेश्वरः ।
भूत्वा क्रोधस्य मे पात्रं मत्तेभः किं स जीवतु ॥

मिलि-(अप) सखे ! दिष्ट्या दृढीभूतं मत्तेभवैरं जीमूतस्य ।

कुमु-त्वर्यतां रिपुनिग्रहाय ।

जीमू-भद्र, यावदानेष्यामि प्रणयिनीं तावदिहास्यतां युवाभ्याम् ।

79