जीमू-स पापात्मा विनष्टः खलु ।
कुमु-तदीयकुटुम्बिनी हिमानी नाम कापि कापालिकी महापापा खलु ? सा निहते पत्यौ पुरा कथमपि पद्मिनीं ग्लपयिष्यामीति प्रतिश्रुत्य गता ।
जीमू-आस्यतामासने ।
कुमु-किमुपवेशनेन ? न शक्नोमि चेतः पर्यवस्थापयितुम् ।
जीमू-किङ्कर्तव्यमधुना ?
कुमु-प्रथमं दर्शय भगिनीवाससदनम् । तत्र तां निरीक्षमाणस्य मम हृदयं समाश्वस्तं भवेत् ।
जीमू-(विहस्य) कथं केसरिसमाक्रान्तकन्दराधिष्ठितमणेर्हरिणापहरणशङ्का ! यद्यपि, गत्वा पश्यामः । (इति परिक्रामतः) (मिलिन्दः शयानः प्रविशति) ।
कुमु-(स्वगतम्) सखा स्वपन्निव जागर्ति । (प्रकाशं) कुतोऽत्र शेते निस्सहाया भगिनी
जीमू-भ्रमरिका बहिर्निर्गता स्यात् कस्यापि कृते ।
कुमु-(स्व) कुमुदाकर एव बहिर्निर्गतः कस्यापि कृते । (मिलिन्दसमीपं गत्वा) (प्रका) भद्रे, उत्तिष्ठ ।
मिलि-(ससंभ्रममुत्थाय) कुदो ण दीसइ पिअसही । (कुतो न दृश्यते प्रियसखी) (इति परितो वीक्षते) ।
कुमु-हा । न दृश्यतेऽत्र वत्सा ।
जीमू-दृश्यताम् परितः । (इति सत्वरमुपसर्पति)
मिलि-हळा ! पदुमिणि कहिं गदासि ? कुदो ण दीससि ? हदओ मत्तेभओ पुव्वंविअदाणिंवि तुमं बञ्चेदुं पउतो किअत्त्थो आसि । (हला पद्मिनि, क्व गतासि कुतो न दृश्यसे ? हतको मत्तेभकः पूर्वमिवेदानीमपि त्वां वञ्चयितुं प्रवृत्तः कृतार्थ आसीत् । (इति रोदिति)
कुमु-हा वत्से ! किं मत्तेभवञ्चानावागुराबद्धाऽसि ?
जीमू-अलं विलापेन । वर्तेत सौधान्तरे ।
मिलि-तथ पेख्खामो । (तत्र द्रक्ष्यामः) (इति परिक्रामन्ति)
कुमु-(अपवार्य) पितृगृहे भर्त्रा सह वर्तमाना कौमुदी कथमत्र सौधान्तरे ?