चन्द्रस्त्वं नाथ सतामन्तःकरणेन्दुकान्तमत्यच्छम् ।
सरसीकर्तुमुदीतः सरसीरुहबन्धुसम्भवामात्य ! ॥
राघवसन्देशहरस्तवमेतं सर्वशोकभीतिहरम् ।
यः पठति तस्य सर्वाभीष्टावाप्तौ न कापि विचिकित्सा ॥
मिलि -सखे !
बुद्धिर्बलं यशो धैर्यं निर्भयत्वमरोगता ।
अजाड्यं वाक्पटुत्वञ्च हनुमत्स्मरणाद्भवेत् ॥
इति पवनतनयस्मरणमात्रस्य बुद्ध्यादिप्रदत्वमुक्तम् । किं पुनः स्तुतेः । किञ्च, पवनसम्भवमहिम्ना[१] जीमूतनाशः स्यादेव ।
(प्रविश्य)
बलाका-सामिणि । एदं कुसुमम् । (स्वामिनि एतत्कुसुमम्) (इत्यर्पयति) ।
मिलि हञ्जे । किं कुणइ जीमूअराओ ? (हञ्जे । किं कुरुते जीमूतराजः ?) ।
बला-देवी । पदुमिणीए संगमम्म सुहं वेळं पुच्छइ देवण्णजणम् । संभरेइ कत्थूरिम्, चंदण, हिमंबु, पुप्फं, अण्णं जंजं भोअवत्थु । (देव्याः पद्मिन्याः सङ्गमाय शुभां वेळां पृच्छति दैवज्ञजनम् । संभरति कस्तूरीं चन्दनं हिमाम्बु पुष्पम् अन्यद्यद्यद्भोगवस्तु । )
मिलि-हञ्जे । तं भण पदुमिणी तुह संगेण सुहं कामअंती किंवि, णिमित्तं दट्ठूण अत्तणो इदो परिबूभंसं चितअंन्ती वट्टइति । (हञ्जे तद्भण पद्मिनी तव संगेन सुखं कामयमाना किमपि निमित्तं दृष्ट्वाऽऽत्मनः इतः परिभ्रंशं चिन्तयन्ती वर्तत इति ।
बला-जहा आणवेति भट्टिणी (यथाऽऽज्ञापयति भर्त्री ) (इति निष्क्रान्ता)
कुमु-सखे । आगमिष्यति पापो जीमूतः । तं यथोचितं ब्रूहि ।
मिलि-सखे । वक्ष्यामि यथाभवदभिहित यथामति ।
(झटिति प्रविश्य)
जीमूतः-भद्रे भ्रमरिके, का तव सख्याः कातरता । ?
मिलि-अय्य, णिमित्तदंसणादो तुमं उद्दिसिअ एव चिन्तेइ । (आर्य । निमित्तदर्शनात् त्वां उद्दिश्यैव चिन्तयति) ।
- ↑ पवनात् सम्भवेन महिम्ना, वायोः शक्त्या मेघानां शीर्यमाणत्वात् ।