पृष्ठम्:पद्मिनीपरिणयः.pdf/९२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
1952.]
श्रीपद्मिनीपरिणये सप्तमोऽङ्कः

जीमू-मा चिन्तयतु मामुद्दिश्य प्रिया ।

उत्तुङ्गपदभाजं मां सदा वज्रबलान्वितम् ।
सर्वतोमुखसञ्चारं कोऽस्ति च्यावपितुं पटुः ॥[१]

मिलि-(अपवार्य) जीमूतं च्यावयितुं शारदानन्दं विना न कोऽपि समर्थः । (प्रकाशम्) अय्य तुमं तारिसो एव्व । किंदु चिळादो मत्तेभओ सहिं मह ओहरिदुं समअं पडिवाळेत्ति । ततो अच्चाहिदं संकइ हिअअम् । (आर्य ! त्वं तादृश एव । किन्तु चिरान्मत्तेभकः सखीं मभापहर्तुं समयं प्रतिपालयति । ततोऽत्याहितं शङ्कते हृदयम् ।

जीमू-

जीमूतवशगामेनां मत्तेभः किं करिष्यति ।
पद्मिनीं हरिणाक्रान्तां किङ्कुर्याद्वनगः करी ॥

मिलि-अय्य ! किं करिणो वि बलसाळी हरिणो । (आर्य ! किं करिणोऽपि बलशाली हरिणः) ।

जीमू-भद्रे । हरिणा [२] सिंहेनाक्रान्तमित्युक्तम् ।

मिलि - (निश्वस्य) तुह वअणंवि अप्पिअं सूएदि । किं कादव्वम् । (तव वचनमप्यप्रियं सूचयति । किं कर्तव्यम् ?)

जीमू-भद्रे । धीरा भव ।

मिलि-तुमस्सिं विज्जमाणे णो भीई (त्वयि विद्यमाने नो भीतिः) ।

जीमू-तथा (इति निष्कान्तः)

कुमु -

उत्थायार्कः प्रथमममलो गाः प्रयुञ्जन्पदे सौ
विष्णोः पश्चात् द्विजततिमरं धावयन्निस्तमस्कः ।
सन्मार्गस्थो जगति कलयन् कर्म तत्तत्समस्तं
मित्रत्वं स्वं निखिलजनतां नन्दयन् संव्यनक्ति ॥
करोतु वा तापमयं जलस्य तनोतु वा शोषमतीव पूषा ।
अस्योदयं काङ्क्षति सर्वलोको दोषं पिधत्ते बहुना गुणानाम् ॥
  1. वज्रमिव बलान्वितम् । वज्रबलेनाशनेर्बलेन च | सर्वतोमुखस्सञ्चारः यस्य । सर्वतोमुखस्य जलस्य सञ्चारो यस्मादिति च ।
  2. हरिणा = सिंहेन हरिणेन एणेन च ।
  3. 3
    75