सामग्री पर जाएँ

पृष्ठम्:पद्मिनीपरिणयः.pdf/७९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[XIII. 2
JOURNAL OF S. V. ORIENTAL INSTITUTE

अथवा । चम्पककुसुमावलोकनेन हृदयं विनोदयामि । यदस्मिन् मधुपसञ्चाराभावात् निर्गुणता भवति । गुणसङ्गं विना शरस्योदञ्चनं न सिद्ध्यति खलु ! । (इति चम्पकमुपसृत्य) सखे ! हन्त

बाणा न मकरकेतोश्चम्पककुसुमानि विरहिलोकस्य ।
हृदयप्रदाहकानि ज्वलितानि महान्त्यलातचक्राणि ॥

अथवा !

भोश्चम्पक सखे हिंसा न युक्ता मयि ते यतः ।
मत्प्रियानासिकौपम्यं दधासि परदुर्लभम् ॥

अरु-(स्वगतम्) हन्त सखा । दशाननापहृतसीतावियुक्तस्य श्रीरामभद्रस्य दशां प्राप्तः ।

(प्रकाशम्) सखे ! कथं उन्मादावस्थां गतोऽसि ।

भास्क-

कुसुमशर नमस्ते तिग्मबाणप्रयोगा-
द्विरम परभृत त्वां नौमि मौनं भजस्व ।
मलयपवन मां त्वं मा स्पृश स्याः सुपुण्यो
मयि कथमतिदीने नास्ति वोऽत्रानुकम्पा ॥

अरु-वयस्य ! विपन्निकष एव पुरुषाणां मनोधृतिहेम परीक्ष्यते ।

भास्क-

[]अत्यन्तभीषणतमःक्षितिभृत्क्षणेन
यत्तेजसि स्फुरति दूरमुपैति कामम् ।
यस्याशनिप्रतिभयादपि भीर्न मेघात्
सोऽहं बिभेमि मदनस्य परं हि बाणात् ॥

इह हि !

सर्वं लोचनगोचरं भवति मे कल्पान्तकालोपमं
सर्वे सम्प्रति कर्णभागविषयाः संवर्त्तमेघारवाः ।
एवं तावदहो भवेन्न विशयो यावत्प्रियां नो दृशा
द्रक्ष्यामि श्रवणेन तन्मृदुगिरं श्रोष्यामि नाहं सखे ॥
  1. भीषणतमः = अतिभीषणः । भीषणं तम एव. क्षितिभ्रत् यस्य, मे = मम, अघात् = व्यसनात् । मेघात् = घनाच्च ।
  2. 62