पुटमेतत् सुपुष्टितम्
[XIII. 1
JOURNAL OF S.V. ORIENTAL INSTITUTE
भ्रम-साहु पत्थणम् । (साधु प्रार्थनम्)
पद्मि--हारं हरिदयिते ते ग्रीवाधूपयामि सुग्रीवे ।
- अङ्गदमपि दोर्मूले मां गदहीनां विधेह्यनङ्गाम्ब ॥
- कर्णे सुवर्णपत्रं कलयाम्यर्णोजमन्दिरमद्य तव ।
- श्रवणं भूषय मे त्वं दयितकरोद्यत्सुवर्णपत्रेण ॥
- चूडारत्नं नूतनं शिरसि तवाहं समर्पयामि रमे ।
- साभयमुद्रं कुरु मे मूर्ध्नि करं ते समुद्रशयकान्ते ॥
- मृगमदतिलकं निटिले मृगमदहारिणि विलोचनप्रभया ।
- कलयामि जलधिकन्ये कुलतिलकं तं कुरुष्व मदधीनम् ॥
- मल्लीमाला मातर्धम्मिल्ले ते समर्पिताऽद्य मया ।
- एषा भ्रश्यतु रहसि स्मरजनकस्यैव पाणिसंसर्गात् ॥
- सुरभिं गृहाण धूपं सुरवन्द्ये मत्प्रदत्तमनुरूपः ।
- अम्बार्पयामि दीपं दीपय मे विद्विषि स्वकं कोपम् ॥
- अङ्गदमपि दोर्मूले मां गदहीनां विधेह्यनङ्गाम्ब ॥
भास्क–साम्प्रतमभूतपूर्वशोभं पूजाभवनम् ।
- सुरभि सुरभिमर्पिस्सेकदीप्तप्रदीपै-
- रपि रुचिरसुगन्धापूरकर्पूरदीपैः ।
- रपि रुचिरसुगन्धापूरकर्पूरदीपैः ।
- हरति हृदयमुच्चस्निग्धसाम्ब्राणिधूपै-
- र्विविधसरसभक्तैश्चाज्यदुग्धैरपूपैः ॥
- र्विविधसरसभक्तैश्चाज्यदुग्धैरपूपैः ॥
- सुरभि सुरभिमर्पिस्सेकदीप्तप्रदीपै-
पद्मि -भोज्यं भक्ष्यं लेह्यं प्राज्यं पेयञ्च देवि मन्दोष्णम् ।
- तुभ्यं निवेदयेऽहं लभ्यं सर्वं विधेहि दयितगृहे ॥
- क्रमुकफलनागवल्लीमयवीटीयं सचूर्णकर्पूरा ।
- दत्ता मुखे मया ते वदने शौरेरियं ततो लगतु ॥
- तुभ्यं निवेदयेऽहं लभ्यं सर्वं विधेहि दयितगृहे ॥
भास्क-अहो मदिरेक्षणायाः श्रृङ्गारव्यतिकरमनोहरो हरिप्रणयिनीचरणसरोजभक्तिभावः ।
पद्मि-(उत्थाय)
- दनुमवरिपुवक्षोनित्यवासैकदीक्षे
- जननि सुजनसम्पद्दानजाग्रत्कटाक्षे ।
- दनुमवरिपुवक्षोनित्यवासैकदीक्षे
42