अनुकूलः - स्वामिन् !
- यदि सन्तं सुता लब्ध्वा भर्तारं नन्दति स्वयम् ।
- जनकस्य सुखं तादृक् न पुत्रशतवत्तया ॥
कासारः - असति जामातरि जायते पुरुषस्य या व्यथा सा न शक्यते परिच्छेत्तुम् । तथाहि ।
- जामाता यदि दुर्मतिः शुभवधूलाभावधि प्रश्रयं
- श्वश्र्वां च श्वशुरे प्रदर्श्य तदनु प्राप्तेप्सितो दर्पितः ।
- ताभ्यां स्वीयसुतातिवत्सलतया सम्भावितो मन्यते
- स्वं वित्ते धनदं मतौ सुरगुरुं रूपे प्रसूनायुधम्॥
- जामाता यदि दुर्मतिः शुभवधूलाभावधि प्रश्रयं
हन्त! दुर्मेधसो जामातरो मातरमिव सम्भावनीयां श्वश्रूं स्वभुजिष्यामिव पितरमिव पूज्यं पूज्यं क्रीतदासमिव ताभ्यां दुहितृप्रेम्णा दीयमानंयौतकमधमर्णगृहीतं धनमिवावजानते ।
(नेपथ्ये)
साहु साहु ! (साधु साधु) ।
कासा - सखा मम खलु समभिनन्दति अस्मद्वचः ।
(प्रविश्य विदूषकः) वअस्स, जं कहिदं तुंहेहिं तं सवं मए अणुहूदम् । (वयस्य यत्कथितं युष्माभिस्तत् सर्वं मया अनुभूतम् ।
कासा - सखे कथमिव ।
विदूषकः - विवाहपेज्जन्तं मह चरणेसु णिपतन्तो दुग्मई जामाआ तदो मह घरभोअणपीवरसरीरो वि मह पच्चख एव्व ‘अये भिखुअपुत्ति, दासीए पुत्ति, मूढजोणिजादे, किं तुए तादघरादो आणीदं रण्डेत्ति मह कण्णं अहिख्खिवइ । किं वित्थरेण, अण्णदो संपादेदुं अख्खमो मह घरादो एव सव्वं इत्थिआघणत्तणेण आणेदव्वं मणाइ । तस्स सव्वं वि दुण्णअं सहेमि वच्चाए को वि सुगुणो दोहित्तो होस्सदिति पच्चासाए ।
(विवाहपर्यन्तं मम चरणयोः निपतन् दुर्मतिः जामाता ततो मम गृहभोजनपीवरशरीरोपि मम प्रत्यक्षमेव, अये भिक्षुकपुत्रि, दास्याः पुत्रि, मूढयोनिजाते, किं त्वया तातगृहादानीतं, रण्डे इति मम कन्यामधिक्षिपति । किं विस्तरेण । अन्यतस्संपादयितुमक्षमः मम गृहादेव सर्वं स्त्रीधनत्वेनानेतव्यं मन्यते । तस्य सर्वमपि दुर्णयं सहे, वत्सायां कोऽपि सुगुणो दौहित्रो भविष्यतीति प्रत्याशया) ।