पृष्ठम्:पतञ्जलिचरितम्.djvu/४७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७ सर्गः]
४३
पतञ्जलिचरितम्

इतरस्य शास्त्रनिचयस्य कारका
मनुजेषु केचन परं तु तापसाः ।
भगवाञ्जगद्भरणसंहृतिक्षमः
फणिराज एव पदशास्त्रभाष्यकृत् ॥ २२ ॥

अशुचिं शठं विषयलुब्धमास्तिक-
द्विषमप्रवृत्तगुरुशास्त्रभक्तिकम् ।
यदि शिष्यमानयति भाष्यमुद्गृण-
न्विपदं तयोर्वदति दृग्गत: फणी ॥ २३ ॥

प्रयतः प्रसन्नहृदयो जितेन्द्रियः।
प्रवणो महत्सु गुरुशास्त्रभक्तिमान् ।
[१]णिनः कृतिं पठति चेन्न हीयते
न भजत्यघं न गुरुणा विरुध्यते ॥ २४ ॥

प्रथमं विचिन्तय गतिं तथा गतां
पदसूत्रवार्तिककृतोर्द्वयोरपि ।
[२]णिशिष्यचेष्टितमपि श्रुतं ततो
बहुविघ्नमेव पदशास्त्रशीलनम् ॥ २५ ॥

कुशलाय वृद्धिरिति सिद्ध इत्यथे-
त्युदितं पदत्रयमुपक्रमे कृतेः ।
यदृषित्रयेण प[३]ठतां निरागसां
मत एव मङ्गलमु[४]देत्यनिर्गलम् ॥ २६ ॥

प्रथ[५]मोत्तरस्य फलमाह्निकस्य य-
त्पठने पतञ्जलिरनल्पमब्रवीत् ।



  1. ‘सुकृती कृतिं’ ख.
  2. ‘फणिशिष्यचेष्टितमपि द्रुतं’ क.
  3. ‘पठितान्निरागसां’ क.
  4. ‘उदेत्यनर्गलम्’ क.
  5. ‘प्रथमोत्तमस्य’ क.