शार्ङ्गधन्वशयनत्वदशायां ताडितस्य तरलब्धितरङ्गैः ।
तस्य किं क्षतमभूदुदवासे शीतले शिशिरकालदिनेषु ॥ २७ ॥
प्राग्बिलेशयतया दुरवापान्यासनानि यदनेन जितानि ।
अद्भुताय तदसूत्रुरुधे यन्नात्र चित्रमनिलाशितयास्य ॥ २८ ॥
चक्षमे वपुषि कर्तुमनूनन्यासमङ्कुरितकर्णकराङ्घ्रिः ।
सांप्रतं किल स तापसरूपो मातृकाक्षरगणस्य फणीन्द्रः ॥ २९ ॥
रुन्धति श्वसितमन्तरमुष्मिन्नीक्षणप्रभृतिरिन्द्रियवर्गः ।
अर्यमातप[१] इवाहरपाये स्पन्दितुं बहिरलं न बभूव ॥ ३० ॥
प्राणरोधमतनिष्ट यदायं सा पुनः प्रथममेव ततोऽपि ।
कुण्डलिन्यभवदस्य वशे स्यात्तत्र कुण्डलिनि तत्किमयुक्तम् ॥ ३१ ॥
पद्मकोशदलनं कृतमासीदुद्यतोषसि सहस्रकरेण ।
प्रा[२]गभूवमसहस्रमुखः किं नेति तत्स इव सोऽपि चकार ॥ ३२ ॥
चन्द्रचूडचरणाम्बुजयुग्मध्यानसंततिरसानुभवेन ।
निर्मलास्य धिषणा परिणेमे चन्द्रिकेव शरदागमनेन ॥ ३३ ॥
गोणिकासुततपःकृतशङ्का गोत्रभित्प्रभृतयस्त्रिदिवेशाः ।
तत्तपो दलयतेति तदानीं प्रै[३]रिरन्नमरवारनताङ्गीः ॥ ३४ ॥
अङ्गभाज इव कल्पकवल्यो जङ्गमा इव मनोजपताकाः ।
विभ्रमैरथ विटान्भ्रमयन्त्यः सुभ्रुवो ववलिरेऽस्य पुरस्तात् ॥ ३५ ॥
स्र[४]स्तनीविनहनं च्युत्तचेलव्यञ्चितस्तनमृजूकृतमध्यम् ।