पृष्ठम्:पञ्चीकरणवार्तिकम्.djvu/31

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


বেলগ্রান্ডয়ােম । ጻል न सभागमिति । तहि निर्भाग भविष्यतीलाशैक्य तद्भागभूतानामशभूतानां पृथिव्यादीनां विद्यमानत्वान निर्भागमित्याह-न निर्भागमिति। अतएव नोभयरूपत्वमित्याह- न चापीति ॥ ननु सर्वात्मना निर्वक्तुमशक्यत्वे तत्स्वरूपाधिगतिरेव न स्यात् । लक्षणाभावे लक्ष्याधिगतेरसंभवादित्यार्शक्य सत्वादिना निर्वचनाभावेऽपि आत्मज्ञानापनोद्यत्वादिरूपेण निर्वचर्न संभवतील्याह-ब्राहेतेि । ब्रह्मामैकत्वविषयकाज्ञानस्यैवानर्थहेतुत्वात्तद्विषयकज्ञानमेव तन्निवर्तकमित्यर्थः । हेयमिति । नाश्यमित्यर्थः । ननु अन्यज्ञानेन । अन्यस्य नाशः कथमित्यार्शक्य मिथ्यात्वात् तदधिष्ठानतत्त्वज्ञानेन तदज्ञानस्य निवृत्तिः संभवतीत्याह--मिथ्यात्वेति । एर्व कारणशरीरस्य स्वरूपै निरूप्यक्स्थां निरूपयति - ज्ञानानामुपसंहारो बुद्धेः कारणतास्थितिः । वटबीजे वटस्येव सुषुतिरभिधीयते। ४२ ॥ ज्ञानानामिति । अत्र ज्ञानानामिित बहुवचनात् स्थूलसूक्ष्मर्थविषयकाणां जाग्रत्स्वप्नावस्थासंबन्धिनां सर्वेषां ज्ञानानामभावो विवक्षितः । तर्हि वृत्तीनामभावे बुद्धेरप्यभावः स्यादिल्याशङ्गथाह-बुद्धेरिति । कारणतास्थितिरिति । कारणात्मना ज्ञानात्मना स्थितिरवस्यार्न । पुनर्बुद्धयुत्पादनयोग्यवासनात्मना अवस्थानमित्यर्थः । उपरत* कृत्तिकतया बुद्धेः कारणात्मनावस्थितिः सुषुप्तिरभिधीयत इत्यथैः । ज्ञानानामुपसंझरो मुककपीति बुद्धेः कारणतास्थितिरित्युक्तम् । तावत्युक्ते जाग्रद्दशायामतिव्याप्तिः , कार्यदशायामपि कार्यस्य कारणरूपेणावस्थानात् अत उक्तम-ब्लानानामुपसंहार इति । तत्रानुरूपं दृष्ट्टान्तमाह्-वटेतेि ॥ ४२ ॥ अभिमानी तयोर्वस्तु प्राज्ञ इत्यभिधीयते । 1,覆。审f甲円事拘