पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रम् *

[१ मित्र- मानाययत् । तत्र च विविधैः शीतोपचारैश्चिकित्सकोपदिष्टैर्मन्त्र- वादिभिरुपचर्यमाणश्चिरात्कथञ्चित्सचेतनो बभूव । ततो रथकारेण पृष्टः-'भो मित्र ! किमेवं त्वमकस्माद्विचेतनः सातः ?, तत्कथ्यतामात्मस्वरूपम् । स आह-'वयस्य ! यद्येवं तच्छृणु मे रहस्यं येन सर्वामा. स्मवेदना ते वदामि,-'यदि त्वं मां सुहृदं मन्यसे ततः काष्ट. प्रदानेन प्रसादः क्रियता, क्षम्यतां यद्वा किञ्चित्प्रणयातिरेकादयुक्तं तव मयाऽनुष्ठितम्। सोऽपि तदाकर्ण्य बाष्पपिहितनयनः सगद्गदमुवाच-'वयस्य! यत्किचिदुःखकारणं तद्वद, येन प्रतीकारः क्रियते-यदि शक्यते कर्तुम् । उक्तञ्च- औपधानां सुमत्राणां बुद्धेश्चैव महात्मनाम् । असाध्यं नास्ति लोकेऽत्र यद्ब्रह्माण्डस्य मध्यगम् ।। २१९ ।। तदेषां चतुर्णा यदि साध्यं भविष्यति तदाऽह साधयि- प्यामि। कौलिक आह-'वयस्य ! एतेषामन्येषामपि सहस्राणामुपा. यानामसाध्यं तन्मे दुःखं, तस्मान्मम मरणे मा कालक्षेपं कुरु ।' आप्तपुरुपै -स्ववन्धुवान्धवै । समुत्क्षिप्य उत्थाप्य । शीतोपचारै कामोपतापशान्त्यर्थ चिकित्सकोपदिष्टैश्चन्दनादिशीतलोपचारै । मन्त्रवादिभि = तान्त्रिकैश्च ['ओझा' ] | आत्मस्वरूपम्-स्वरहस्यम् , स्वास्थ्यं वा । यद्येव यद्याग्रहस्ते श्रोतुम् । काष्ठप्रदानेन-चितार्थ काष्ठभारदानेन । प्रसाद =अनु- ग्रह । अहमशक्यप्रतीकारेणानेन दुखेन दुखितश्चिताप्रवेगेन मर्त्तमिच्छामी- त्यर्थ , यद्वा-यच्च किञ्चित् । प्रणयातिरेकात अतिनेहात् । सोऽपि रथकारोऽपि । वाप्पपिहितनयन =साश्रुलोचन । औषधानमिति । औपधाना-रसायनादिदिव्यौषधानामोषधीनाञ्च । सुम- बाणा-सिद्धमत्रतनयन्त्रादीना, सुमन्त्रितानाञ्च । महात्मना-योगिना, सिद्धाना, तपस्विनाञ्च । वुद्धेश्व-सुमतेश्च । ब्रह्माण्डमध्यगं किञ्चिदपि वस्तु कार्य वा असाध्य नास्ति।औषधादेरन्यतमस्याऽसाध्यं किञ्चिदपि नास्ति,यजगति वर्तत इत्यर्थ ॥२१९॥