पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/४२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रम् *

[५ अपरीक्षित- चक्रधर आह-'कथमेतत् ?' सोऽब्रवीत्- १० विकाळराक्षसवानरकथा करिमश्चिन्नगरे सद्रसेनो नाम राजा प्रतिवसति स्म । तरयः सर्वलक्षणसंपन्ना रत्नवती नाम कन्याऽस्ति। तां कश्चिद्राक्षसो जिहीर्षति । रानावागत्योपभुते । परं कृतरक्षाविधानां तो हर्तुं न शक्नोति । साऽपि तत्समये रक्षःसांनिध्यजामवस्थामनुभवति कम्पादिभिः। एवमतिकामति काले कदाचित्स राक्षसो मध्य- निशायां गृहकोणे स्थितः । साऽपि राजकन्या स्वलखीमुवाच- 'सस्त्रि ! पश्यैष विकालः समये नित्यमेव मां कदर्थयति, अस्ति दुरात्मनः प्रतिषेधोपायः कश्चित् ?' तच्छ्रुत्वा राक्षसोऽपि व्यचिन्तयत्-'नूनं यथाहं तथाऽ. न्योपि कश्चिद्विकालनामाऽस्या हरणाय नित्यमेवागच्छति, परं सोऽप्येनां हर्तुं न शक्नोति । तत्तावदश्वरूपं कृत्वाऽश्वमध्यगतो निरीक्षयामि,-'किंरूपः सः ?, किं प्रभावश्चेति । एवं राक्षसोऽश्वरूपं कृत्वाऽश्वानां मध्ये तिष्ठति । तथाऽनुष्ठिते निशीथसमये राजगृहे कश्चिदश्यचौरः प्रविष्टः। तस्य भद्रसेनस्य । सर्वैः शुभलक्षणैः सम्पन्ना=युक्ता। हर्तुमिच्छति जिही. पति-बलान्नेतुमिच्छति । उपभुङ्गे-तामाविश्य भुझे, पीडयति च । कृतं रक्षा- विधानं यस्या. सा ता-कृतरक्षाविधानाम् = कृतमन्त्ररक्षाम् । 'रक्षोपधाना मिति मुद्रितस्त्वशुद्ध पाठः। तत्समये-रात्रिसमये। रक्षसः सान्निध्यं तेन जायते या सा तां-रक्ष सान्निध्यजा-राक्षसावेशसम्भूताम् । कम्पादिभिः गात्रकम्पादिभिः। अतिक्रामति गच्छति । काले-समये । मध्यनिशाया निशीथे । गृहकोणे%3 राजकन्याभवनकोणे । विकाल =विकालनामा राक्षस., भीपणाकृतिर्वा । समये= स्वावसरेऽर्धरात्रे । कदर्थयति-पीडयति । दुरात्मनः-दुष्टस्य । प्रतिपेधोपाय.= निवारणोपाय । लूनम् अवश्यम् । अहं-यथाहरणायागच्छामि इति सम्बन्धः। विकाल- नामा विकालाख्य । किं रूपं यस्यासौ-किम्प कीशाकार । क. प्रभावो