पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/४२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

- कारकम् ]

  • अमिनवराजलक्ष्मीविराजितम् *

सच सर्वानश्वानवलोक्य तं राक्षसमश्वतमं विज्ञायाऽधिरूढः। अत्राऽन्तरे राक्षसश्चिन्तयामास-'नूनमेष विकालनामा राक्षसो मां चौरं मत्वा कोपानिहन्तुमागतः। तत्कि करोमि' ?। एवं चिन्तयन्सोऽपि तेन खलीनं मुखे निधाय कशाघातेन ताडितः । अथासौ भयत्रस्तमनाः प्रधावितुमारब्धः । चौरोऽपि दूरं गत्वा खलीनाकर्षणेन तं स्थिरं कर्तुमारब्ध. वान् । स तु केवलं वेगाद्वेगतरं गच्छति। अथ तं तथाऽगणित- खलीनाकर्षणं मत्वा चौरश्चिन्तयामास-'अहो! नैवंविधा वाजिनो भवन्त्यगणितखलीनाः । तन्ननमनेनाऽश्वरूपेण राक्षसेन भवितव्यम् । तद्यदि कश्चित्पांसुलं भूमिदेशमवलोकयामि तदा- स्मानं तत्र पातयामि, नान्यथा मे जीवितव्यमस्ति । एवं चिन्त- यत इष्टदेवतां स्मरतस्तस्य सोऽश्वो वटवृक्षस्य तले निष्क्रान्तः। चौरोऽणि चटप्ररोहमासाद्य तत्रैव विलग्नः। ततो द्वावपि तो पृथग्भूती परमानन्दभाजौ जीवितविषये लब्धप्रत्याशौ सम्पन्नौ । अथ तत्र वटे कश्चिद्राक्षससुहृद्वानर स्थित आसीत् । तेन राक्षसं त्रस्तमालोक्य व्याहृतम्-'भो मित्र ! किमेवं पलाय्यते- यस्यासौ-कि प्रभाव =कीदृशशक्तिसम्पन्नः । निशीथसमये अर्धरात्रे । राजगृहे राजकीयाऽश्वशालायाम् । अश्वतम श्रेष्टमश्वम् । अत्रान्तरे अस्मिन्नवसरे। चौरं= कन्यापीडकं चौरम् । स. राक्षसः। तेन-अश्वचौरेण । खलीन कविकम् । ('घोडे की लगाम ) । मुखे-राक्षसमुखे। कशाघातेन अश्वताडनोपकरणाघातेन : ( कशा चावुक )। असौ कन्याचोरो राक्षस । भयेन त्रस्त मनो यस्यासौ भयत्रस्तमनाः- भयातुर.। आरब्धमस्यास्तीत्यारब्ध । अर्श आद्यच् । यद्वा कर्मणोऽविवक्षया कर्तरि क्त ।आरब्धवानित्यर्थः । खलीनाकर्षणेन कविकाकर्षणेन । तम् अश्वम् । वेगादपि वेगतरं यथा स्यात्तथा गच्छति-यथा यथा स्थिरीकर्तुं चौर खलीनमा. कर्षति तथा तथाऽसौ राक्षसो नितरा धावते । न गणितं खलीनं यैस्ते-अगणित- खलीना. खलीनाकर्षणेऽपि न स्थिरता भजन्तः। (खलीन लगाम')। पांसुलं सिकताबहुलम् । जीवितव्यं जीवनम् । वटप्ररोह-वटजटाम् । विलग्न =वट- मारुरोह । परममानन्दं भजत इति-परमानन्दभाजी अतिहर्षितौ। on