पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारकम् ]

  • अभिनवराजलक्ष्मीविराजितम् *

३८१ तथा द्वितीयस्य मण्डका दत्ताः । तेनाप्युक्तम्- 'अतिविस्तारविस्तीर्ण तद्भवेन्न चिरायुषम् ।' स च भोजनं त्यक्त्वा गतः। अथ तृतीयस्य वटिकाभोजनं दत्तम् । तत्रापि तेन पण्डितेनोक्तम्- 'छिद्रेष्वना बहुलीभवन्ति । एवं ते त्रयोऽपि पण्डिताः क्षुत्क्षामकण्ठा लोकैर्हस्यमाना- स्ततः स्थानात् स्वदेशं गताः। अथ सुवर्णसिद्धिराह-'यत्त्वं लोकव्यवहारमजानन्मया वार्य: माणोऽपि न स्थितः, तत ईदृशीमवस्थामुपगतः। अतोऽहं ब्रवीमि-अपि शास्त्रेषु कुशलाः' इति ॥ तच्छ्रुत्वा चक्रधर आह–'अहो, अकारणमेतत्- सुबुद्धयोऽपि नश्यन्ति दुष्टदैवेन नाशिताः । स्वल्पधीरपि तस्मिस्तु कुले नन्दति सन्ततम् ॥ ४२ ॥ उक्तञ्च- अरक्षितं तिष्ठति दैवरक्षितं, सुरक्षितं दैवहतं विनश्यति । जीवत्यनाथोऽपि वने विसर्जितः कृतप्रयत्नोऽपि गृहे न जीवति ।।४३।। तथाच- शतबुद्धिः शिरस्थोयं लम्बते च सहस्रधीः । एकबुद्धिरहं भद्रे ! क्रीडामि विमले जले ॥४४॥ सुवर्णसिद्धिराह-'कथमेतत् ?' । स आह- ५ शतबुद्ध्यादिमत्स्यत्रयकथा कस्मिंश्चिजलाशये शतवुद्धिः सहस्रबुद्धिश्च द्वौ मत्स्यौ निव- न्ताशताकुलो न चिरं जीवति, एवम् ‘अतिविस्तीर्णा मण्डका न भोजने प्रशस्ता.' इत्यप्यर्थः। वटिका ('वडा'1) छिद्रेषु व्यसनेषु, सच्छिद्रेषु भोजनेषु च। बहु- लोभवन्ति वर्द्धन्ते । क्षुरक्षामकण्ठाः क्षुधाशुष्ककण्ठा. । बुभुक्षिता.। न स्थित.-न गमनानिवृत्तः। अरक्षितम् अकृतरक्षणप्रयत्न । दैव भाग्यम् ॥ ४३ ॥ भद्रे-सुभगे ॥ ४४ ॥ जलाशये-सरसि। तयो. शतबुद्धि- १ 'चिरायुषे इति गौडा. पठन्ति । ।