पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कारकम् ]]

  • अभिनवराजलक्ष्मीविराजितम् *

३७७ वुद्ध्या लभ्यते-विद्यां विना । तन्नास्मै स्वोपार्जितं दास्यामः । तद्गच्छतु गृहम् । ततो द्वितीयेनाभिहितम्-'भोः सुबुद्ध ! गच्छ त्वं स्वगृहे, यतस्ते विद्या नास्ति ।' ततस्तृतीयेनाऽभिहितम्-'अहो न युज्यते एवं कर्तुम् । यतो वयं बाल्यात्प्रभृत्येकत्र क्रीडिताः। तदागच्छतु महानुभा. वोऽस्मदुपार्जितवित्तस्य समभागी भविष्यतीति । उक्तञ्च- किं तया क्रियते लक्ष्म्या ?,या वधूरिव केवला। या न वेश्येव-सामान्या पथिकैरुपभुज्यते ॥ ३७ ।। तथा च–'अयं निजः परो वेति गणना लघुचेतसाम् । उदारचरितानान्तु वसुधैव कुटुम्बकम् ॥ ३८॥ तदागच्छतु एषोऽपि-' इति । तथाऽनुष्ठिते तैः मार्गाश्रितै. रटव्यां कतिचिदस्थीनि दृष्टानि । ततश्चैकेनाभिहितम्-'अहो! अद्य विद्याप्रत्ययः क्रियते । कतिचिदेतानि मृतसत्त्वस्यास्थीनि तिष्ठन्ति । तद्विद्याप्रभावेण जीवनसहितानि कुर्मः। अहमस्थि- सञ्चयं करोमि। ततश्च तेनौत्सुक्यादस्थिसंचयः कृतः। द्वितीयेन चर्ममांसरुधिरं संयोजितम् । तृतीयोऽपि यावज्जीवनं संचार- यति, तावत्सुबुद्धिना निषिद्धः-'भोः, तिष्ठतु भवान्, एष सिंहो निष्पाद्यते, यद्येनं सजीवं करिष्यति-ततः सर्वानपि व्यापाद- यिष्यति'। इति तेनाभिहितः स आह-'धिङ् मूर्ख! नाहं अनधीतविद्यः । गुण =फलं । राजप्रतिग्रहः राजादिदत्तं धनादिकं । बुद्ध्या बुद्धिमात्रेण । समभागी-समानलाभशाली। या वधूरिव=भार्येव-केवलेनात्मनैवोपभुज्यते, नतु वेश्येव पथिकै =मार्ग- स्थैरपि भुज्यते, तया लक्ष्म्या किम् ?=न किमपि फलम् ॥ ३७ ॥ 'अयं निज' 'अयं पर.' इति गणना-लघुचेतसा=क्षुद्राणा भवति, उदारचरिताना=महात्मना तु-वसुधैव-सकलं जगदपि-कुटुम्बकमेव ॥ ३८ ॥ मार्गाश्रितैः पथि गच्छद्भिः। विद्याप्रत्यय. पूर्वोपार्जितविद्याप्रभावदर्शनम्। अस्थिसञ्चय =अस्थ्ना यथासंनिवेशं स्थापनं । 'विद्याप्रभावादिति शेष । सुवुः द्धिना-चतुर्थेनानधीतशास्त्रेण । निष्पाद्यते भवद्भिः प्राणसंयोजनेन उत्थाप्यते ।