पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • पञ्चतन्त्रम् *

[५ अपरीक्षित अथ तस्मिश्चिरयति स सुवर्णसिद्धिस्तस्यान्वेपणपरस्तत्प. दपङ्क्त्या यावकिचिद्धनान्तरमागच्छति, तावद्रुधिरप्लावित- शरीरस्तीक्ष्णचक्रेण मस्तके भ्रमता सवेदनः क्वणन्नुपविष्टस्ति- तृतीति ददर्श । ततः-तत्समीपवर्तिना भूत्वा सवाएं पृष्टः- 'भद्र ! किमेतत् ? ।' स आह-'विधिनियोगः।' स आह- 'कथं तत् ? कथय कारणमेतस्य ।' सोऽपि तेन पृष्टः सर्व चक्र- वृत्तान्तमकथयत् । तच्छुत्वासौ तं विगर्हयनिदमाह-भोः ! निषिद्धस्त्वं मयाs. नेकशो न शृणोषि मे वाक्यम् , तम्कि क्रियते । विद्यावानपि कुलीनोऽपि वुद्धिरहितः। अथवा साध्विदमुच्यते- वरं बुद्धिर्न सा विद्या विद्याया बुद्धिरुत्तमा । बुद्धिहीना विनश्यन्ति यथा ते सिंहकारकाः ।। ३६ ।। चक्रधर आह-'कथमेतत् ?' | सुवर्णसिद्धिराह- ३. सिंहकारकमूर्खब्राह्मणत्रयकथा कस्मिश्चिदधिष्ठाने चत्वारो ब्राह्मणपुत्राः परस्परं मित्रभाव- मुपगता वसन्ति स्म । तेषां त्रयः शास्त्रपारङ्गताः, परन्तु बुद्धि- रहिताः । एकस्तु बुद्धिमान् , केवलं शास्त्रपराङ्मुख. । अथ तैः कदाचिन्मित्रैमन्त्रितम्-'को गुणो विद्यायाः, येन देशान्तरं गत्वा भूपतीन् परितोष्यार्थोपार्जना न क्रियते ? । तत्पूर्वदेशं गच्छामः'। तथानुष्ठिते किंचिन्मार्ग गत्वा तेषां ज्येष्ठतरः प्राह-'अहो! अस्माकमेकश्चतुर्थो मूढः, केवलं बुद्धिमान् । न च राजप्रतिग्रहो दिजन्यां । चिरयति=विलम्ब कुर्वति सति । सवेदनः पीडाकुलः । क्वणन्= विलपन् । सबाष्पं साश्रु । विधिनियोगः दुर्भाग्यविजम्भितम् । असौ-सुवर्ण- सिद्धिः। तसिद्धिभ्रष्टं । विगर्हयन् विनिन्दन् । न शृणोषि नैवाऽशृणोः । वर्त- . मानसामीप्ये लट। अधिष्ठाने नगरे। 'अधिष्टानं रथस्याङ्गे प्रभावेऽध्यासने पुरे' इत्यजय. कोशात् । तेषां तेषां मध्ये । वुद्धिरहिताः व्यवहारज्ञानशून्या । शास्त्रपराङ्मुख =