भेद] .
- अभिनवराजलक्ष्मीविराजितम् *
एकेपां वाचि शुकवदन्येपां हृदि मूकवत् । हृदि वाचि तथान्येषां वल्गु वल्गन्ति सूक्तयः ।। ६६ ।। न चाऽहमप्राप्तकालं वक्ष्ये। आकर्णितं मया नीतिसारं पितुः पूर्वमुत्सङ्गं हि निषेवता- 'अप्राप्तकालं वचनं बृहस्पतिरपि ब्रुवन् । लभते बह्ववज्ञानमपमानं च पुष्कलम् ॥ ६७ ॥ करटक आह- दुराराध्या हि राजानः पर्वता इव सर्वदा । व्यालाऽऽकीर्णाः सुविषमाः कठिना दुष्टसेविताः ॥ ६८ ।। तथा च-भोगिनः कञ्चुकाविष्टाः कुटिलाः क्रूरचेष्टिताः । सुदुष्टा मनसाध्याश्च राजानः पन्नगा इव ॥ ६९॥ पुर स्फुरन्तीमिव करतलामलकवचक्षुषा विभाव्यमानामिव वर्णयन्ति। अनु- चिताचरणजन्या विपदं, श्रेष्ठनिर्धारितोपायानुष्टानां सिद्धिञ्च, तत्त्वविदो नीति- विशारदा प्रथममेव प्रदर्शयन्तीति भाव । 'नीतिगुणप्रयुक्ता मिति पाठान्तरम् । तत्र-नीतिगुणें प्रयुक्ताम् षाड्गुण्यशालिनीमित्यर्थो बोध्य. ॥ ६५ ॥ वल्गु-मनोरमं यथा स्यात्तथा- । वल्गन्ति प्रस्फुरन्ति ॥ ६६ ॥ उत्सङ्ग-कोडं । निषेवता भजमानेन । बाल्यावस्थायामिति यावत् । पुष्कल वहुलम् ॥६॥ व्यालै =खलै , हिंस्रसिहादिपशुभिर्वनगजैश्च । आकीर्णा =व्याप्ता । व्यालो दुष्टगजे सर्प शठे श्वापदसिंहयो' इति हैम । सुविषमा अपायवहुला , निम्नोन्न- तप्रदेशविषमाश्च । कठिना =क्रूरा , शिलासकुलाश्च । दुष्टसेविता =नटविटादिक्रूर- जनपरवशा , सर्पादिदुष्टजन्तुदुर्गमाश्च ॥ ६८ ॥ भोगिन =भोगशालिन । 'अहे शरीरं भोग स्यात्' इत्यमरः । 'भोगी भुजङ्गमेऽपि स्यात् ग्राममात्रनृपे पुमान्' इति विश्व । कञ्चुकाविष्टा =धृतकवचा , कञ्चकावृताश्च । कैजुको वारबाणे स्यान्निर्मोके कवचेऽपि चेति विश्व । पन्नगा = सर्पा ॥ ६९ ॥ , भोगिन कधुकासक्ताः क्रूरा कुटिलगामिन । सुरौद्रा मन्त्रसाध्याश्च'-इति पाठा । २ कञ्चुक ='चोला' 'अंगरखा' 'सापकी केचुली' ।