- पञ्चतन्त्रम् *
[१ मित्र- द्वेषिद्वपपरो नित्यमिष्टानामिष्टकर्मकृत् । यो नरो नरनाथस्य स भवेद्राजवल्लभः ॥ ६०॥ प्रोक्तः प्रत्युत्तरं नाऽऽह विरुद्धं प्रभुणा च यः । न समीपे हसत्युच्चैः स भवेद्राजवल्लभः ॥ ६१ ॥ यो रणं शरणं यद्वन्मन्यते भयवर्जितः । प्रवासं स्वपुराऽऽवासं स भवेद्राजवल्लभः ॥ ६२ ।। न कुर्यान्नरनाथस्य योपिद्भिः सह सङ्गतिम् । न निन्दा न विवादं च स भवेद्राजवल्लभः ।। ६३ ।। करटक आह-अथ भवांस्तत्र गत्वा किन्तावत्प्रथम वक्ष्यति तत्तावदुच्यताम् ।' दमनक आह- 'उत्तरादुत्तरं वाक्यं वदतां सम्प्रजायते । सुवृष्टिगुणसम्पन्नाद्वीजाद्वीजमिवाऽपरम् ॥ ६४॥ अपायसन्दर्शनजां विपत्तिमुपायसन्दर्शनजां च सिद्धिम् । मेधाविनो नीतिविदः प्रयुक्तां पुरः स्फुरन्तीमिव वर्णयन्ति ॥६५|| राज्ञो-द्वेषिषु शत्रुषु, द्वेपपरः। राज:-इष्टाना=मित्राणाम् । इष्टकर्मकृत्- प्रियकृत् राजवल्लभ ॥६०॥ प्रभुणा विरुद्धम-अनुचितम्-उक्तऽपि यः प्रत्युत्तर नाह=न ब्रूते, स राजवल्लभो भवति ॥६१॥ यो निर्भय पुमान्-रणं युद्धं, शरणं गृहमिव मन्यते । प्रवासं-दूराध्वयात्राञ्च, स्वपुरनिवासमिव-मन्यते स राजप्रियो भवति ॥ ६२ ॥ तावत् आदौ । वक्ष्यति अभिधास्यति । वदता परस्परं कथा कुर्वताम् । उत्तरं श्रुत्वैव प्रत्युत्तरं स्फुरति, यथा सुवृष्टिनिष्पन्नादुत्तमाद्वीजात्क्षेत्रे- निक्षिप्ताद्वीजान्तरं भवति ॥ ६४ ॥ अपगतोऽय. शुभावहो विधिर्यस्मादसौ-अपाय । 'अपायोऽपगमे तथा । पलायनेऽथाऽपेताये' इति केशवः । 'अयः शुभावहो विधि' रित्यमरश्च । अपा- यस्य सन्दर्शनं, तस्माज्जाताम्-अपायसन्दर्शनजाम् अनिष्टमन्त्रनिर्धारणानुष्टानो- द्भूताम् । विपत्ति राज्यादिहानिम् । उपायसन्दर्शनजा-समुचितसन्धिविग्रहाद्यनु- ष्ठानसमुद्भूता। प्रयुक्ता याथातथ्येन निर्धारिता, सिद्धि-शत्रुवधादिसिद्धि,लाभं च । 'उत्तरादेव जायते' । २ 'नीतिगुणे'ति-'नीतिविधीनि च पाठान्तरम् ।