पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रणाशम् ] * अभिनवराजलक्ष्मीविराजितम् * ३५ भद्रे ! समीचीनोऽयं व्यापारः, तव सम्मतिश्चेत्कुतोऽपि धनि- कात्किञ्चिद्रव्यमादाय मया गुर्जरदेशे गन्तव्यं करभग्रहणाय । तावत्त्वयैतौ यत्नेन रक्षणीयौ-यावदहमपरामुष्ट्री नीत्वा समाग- उछामि।' ततश्च गुर्जरदेशं गत्वोष्ट्री गृहीत्वा स्वगृहमागतः । किं वहुना-तेन तथा कृतं यथा तस्य प्रचुरा उष्ट्रयः करभाश्च सम्मिलिताः। ततस्तेन महदुष्ट्रयूथं कृत्वा रक्षापुरुषो धृतः । तस्य प्रति वर्प वृत्त्या करभमेक प्रयच्छति । अन्यच्चाऽहर्निशं दुग्धपानं तस्य निरूपितम्। एवं रथकारोऽपि नित्यमेवोष्ट्रीकरभ- व्यापारं कुर्वन्सुखेन तिष्ठति । अथ ते दासेरका अधिष्ठानोपवने आहारार्थ गच्छन्ति । कोमलवल्लीर्यथेच्छया भक्षयित्वा महति सरसि पानीयं पीत्वा सायन्तनसमये मन्दं मन्दं लीलया गृहमागच्छन्ति । स च पूर्व- दासेरको मदातिरेकात्पृष्ठे आगत्य मिलति । ततस्तैः कलभैर- भिहितम्-'अहो ! मन्दमतिरयं दासेरको-यथा यूथाशष्ट पृष्टे स्थित्वा घण्टां वादयन्नागच्छति । यदि कस्यापि दुष्टसत्त्वस्य मुखे पतिष्यति, तन्नूनं मृत्युमवाप्स्यति । अथैकदा तैरसकृदेव तिषिद्धः सन्नपि स तद्वचने कर्णमदत्त्वैव मदातिरेकाद्धण्टां वादयन वनं प्रविष्टः । इत्थं तस्य तद्वन गाह. मानस्य तत्रस्थः कश्चित्सिहो घण्टारवमाकर्ण्य शब्दानुसारेण दृष्टिं निपात्य अवलोकयति,-यदुष्ट्रीदासेरकाणां यूथं गच्छति । स तु पुनः प्रतिदिवसमिव पृष्ठे क्रीडां कुर्वन्वल्लरीश्वरन् यावत्ति- ष्ठति, तावदन्ये दासेरकाः पानीयं पीत्वा स्वगृहे गताः। तत लोऽपि वनानिष्क्रम्य यावदिशोऽवलोकयति, तावन्न कञ्चिन्मार्ग पश्यति, वेत्ति वा। यूथाद्भष्टो मन्दं मन्दं बृहच्छब्दं कुर्वन्याव- 7 सुख सम्पत् । करमा शिशव उष्ट्रा । रक्षापुरुष रक्षक ('रखवाल' जमादार')। वृत्तिः भृति ('तनखाह')। निरूपितं निर्दिष्टम् ( ठहरा दिया)। वल्ली. लता । लीलया-क्रीडया। पूर्वदासेरक प्रथम करभक । मदातिरेकात् गर्वात् । पृष्ठे-पश्चात् । ( पीछे से ) असकृत् वारंवारम् । कर्णमदत्त्वा अश्रुत्वैव । क्रम