पृष्ठम्:पञ्चतन्त्रम् (अभिनवराजलक्ष्मीटीकोपेता).djvu/३६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५२

  • पञ्चतन्त्रम्

[४ लब्ध- त्कियदूरं गच्छति, तावत्तच्छब्दानुसारी सिहोऽपि क्रम कृत्वा निभृतोऽग्रे व्यवस्थितः। ततो यावदुष्टः समीपमागतः, तावत्सिहेन झम्पयित्वा, ग्रीवायांगृहीतो, मारितश्च । अतोऽहं ब्रवीमि सतां वचनमादि- टम्-' इति । अथ तच्छ्रुत्वा मकरः प्राह-'भद्र ! प्राहुः साप्तपदं मैत्रं जनाः शास्त्रविचक्षणाः । मित्रतां च पुरस्कृत्य किञ्चिद्वक्ष्यामि तच्छृणु ।। ६६ ।।। उपदेशप्रदातॄणां नराणां हितमिच्छताम् । परस्मिन्निह लोके च व्यसनं नोपपद्यते ॥ ६७ ।। तत्सर्वथा कृतघ्नस्यापि मे कुरु प्रसादमुपदेशप्रदानेन । उपकारिषु यः साधुः साधुत्वे तस्य को गुणः ? । अपकारिपु यः साधुः स साधुः सद्भिरुच्यते' ।। ६८ ॥ तदाकर्ण्य वानरः प्राह-'भद्र । यद्येवं तर्हि तत्र गत्वा तेन्द्र सह युद्धं कुरु । उक्तञ्च- 'हतस्त्वं प्राप्स्यसि स्वर्ग जीवन्गृहमथो यशः । युध्यमानस्य ते भावि गुणद्वयमनुत्तमम् ॥ ६९ ॥ उत्तम प्रणिपातेन, शूरं भेदेन योजयेत् । नीचमल्पप्रदानेन, समशक्ति पराक्रमैः ॥७॥ मकरः प्राह-'कथमेतत् ?' । सोऽत्रवीत्- १०. शृगाल-सिंह-व्याघ्र-चित्रकथा आसीत्कस्मिश्चिद्वनोद्देशे महाचतुरको नाम शृगालः। तेन । कृत्वा आक्रमणसन्नाहं कृत्वा । अम्पयित्वा-कूदयित्वा । ('कूद कर अपट कर')। हितं परहितम् । व्यसनं-दुःखम् ॥ ६७ ॥ तेन-शत्रुणा मकरेण । उत्तम श्रेष्ठं, महायलं शत्रुम् । प्रणिपातेन-नम्रतया । शूरं मध्यमं । भेदेन-उपजापेन । समशकि-समान । पराक्रमः युद्धादिभिः । योजयेद-साधयेत् ॥ ७० ॥